पूर्वजैः परिगणितम् आसीत् परमाणोः परिमाणम् पूर्वजैः परिगणितम् आसीत् परमाणोः परिमाणम् लेखकः- प्रो० ए. आर् वासुदेवमूर्तिः एषः स्थूलप्रपञ्चः अविभाज्यैः अतिसूक्ष्मैः अणुपरमाणिभिः निर्मितः अस्ति । एतेषां सूक्ष्मकणानां सम्मेलनात् समबायक्रियया विभिन्नानि वस्तूनि जीविनः च उद्भवन्ति । ततः विभिन्नानि लक्षणानि गुणाः च आविर्भवन्त’ इत्येतत् ‘कल्पना’चित्रम् ऐदम्प्राथम्येन निरूपितवान् आसीत् ‘कणादः’ नाम ऋषिः । एषः कणादः एव वैशेषिकन्यायशास्त्रयोः प्रवर्तकः आस्ति । परमाणोः आकारं, तस्मिन् एव स्तरे जीवस्य उत्पत्तिं च अस्मत्पूर्वजाः ऊहितवन्तः आसन् । ब्रह्मसूत्रे शाङ्करभाष्ये (अ.२, पा. ३, अधि. १३) ‘ तदुणसारत्वात् तु तद्वयपदेशः प्राज्ञवत्’इत्येतस्य सूत्रस्य (सू- २९) विवरणावसरे जीवस्य अणुत्वस्य प्रतिपादनावसरे श्वेताश्वतरोपनिषदः वाक्यम् एवम् उदाह्रियते – वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः सः विज्ञेयः स चानन्त्याय कल्पते ।। (वालाग्रस्य यः शततमो भागस्तस्य पुनरपि शतधा यो भागः सः यथा सूक्ष्मः तद्वत् स जीवः अतिसूक्ष्मः विज्ञेयः । स च आनन्त्याय कल्पते ।) ‘एषोऽणुरात्मा चेतसा वेदितव्यः’ (मुण्ड. १/९) चक्षुषाद्यनवग्राह्यत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृतत्वात् । केशाग्रस्य शततमस्य् भागस्य शततमः भागः कल्पनीयः । एषः केशाग्र-शतांशशतांशः कर्तुम् अशक्यत्वात् मनसा परिकल्पनीयः । तत्परिमाणः जीवः इति अवगन्तव्यम् । एषः भागः नेत्राभ्यां द्रष्टुम् अशक्यः । ज्ञानप्रसादेन एषः अवगन्तव्यः । एतदस्ति प्राचीनानाम् अणुपरिमाणविवरणम् । किन्तु आधुनिकानां वैज्ञानिकानां विवरणम् अपि एतस्मात् भिन्नं तु न भवति । तद्यथा- आधुनिकमानानुगुणं केशाग्रस्य परिमाणं तावत् .05 mm भवति । तन्नाम एषः भागः 10 mm इति निर्दिश्यते । 10-8 c.n= 1A0 = 10 m इदानिम् अणुपरमाण्वादीनां परिमाणं मानेन निर्दिश्यते । ( 10-9 = 1 mm cone Nano Meter = 10 A) अस्मत्पूर्वजाः अणुपरमाण्वादीनां सूक्ष्मतमं मानं कथं निर्दुष्टतया ऊहितवन्तः इति तु वयं न जानीमः । एवं स्थिते अपि एतत् तु प्राञ्चलमनस्कैः अङ्कीकरणीयम् एव भवति यत् अस्मत्पूर्वजैः अणोः द्रव्यराशि-भारादिविषयः व्यवहारे नैव परिगणितः इति । वैदिककाले पात्राणाम्, आभरणानां, विविधसाधनानाम्, आयुधानां च निर्माणार्थे षण्णां सूलधातूनां मिश्रलोहनां च उपयोगः कृतः दृश्यते । अतः एतत् स्फुटं यत् धातूनां भार-कठिनता-चाकचक्यता- दीर्घकालस्थित्यागदिविषये ते सम्यक् जानन्ति स्म एव इति । एतत् ज्ञानम् एव तान् धातूजवस्तुनां निर्माणे कुशलान् कृतवत् आसीत् . गच्छता कालेन् अणुक्षेत्रे यया अभिवृद्भया भवितव्यम् आसीत् सा च अभिवृद्धिः भारते न जाता । अणुक्षेत्रे आधुनिकैः या सिद्धिः अद्य प्राप्ता दृश्यते सा अस्मत्पूर्वजैः प्राप्ता न स्यात् नाम, तथापि सूक्ष्मातिसूक्ष्मविभागादयः तैः निर्दुष्टं ज्ञाताः आसन् इति तु महते आश्चर्याय एव । महते अभिमानाय अपि