विकसनं ग्रामेभ्य: आरम्भणीयः
राष्ट्राभिवृद्धये विकसनप्रवर्तनानि ग्रामेभ्यः आरम्भणीयानि इति मन्त्री किरण् रिज्जु:। तदर्थं राष्ट्रे पञ्चायत्तीराज् संविधानस्य विनियोगः शक्तः भवतु इति सः उक्तवान्। केन्द्रसर्वकारः ग्रामविकसनाय सर्वदा प्रतिज्ञाबद्ध: एव इति तेन अभिप्रेतम्। अतः केन्द्रपद्धतीनां फलप्रदरीत्या विनियोगाय सर्वेषां श्रद्धा आवश्यकी। गांन्धीमहोदय: ग्रामप्रदेशानां प्रतिनिधिः आसीत्। समूहे अध:कृतवर्गाणाम् उन्नमनाय अहोरात्रं प्रयत्न: कृतवान् आसीत् अम्बेदकर: इत्यपि तेन उक्तम्।