परिचयः
वैशेषिकदर्शनस्य प्रवर्तकः महर्षिः कणादः अस्ति। महर्षिकणादस्य अपरं नाम उलूकः तथा च कणभुक् अपि आसीत्। अत एव अस्य दर्शनस्य नाम “औलूक्यदर्शनम्” अपि अस्ति। महर्षि-कणादस्य “कणादसूत्रम्” इति ग्रन्थस्य रचना प्रायशः 400 ई० पूर्वम् अभवत् । अनया दृष्ट्या वैशेषिकदर्शनं न्यायदर्शनाद् अपि प्राचीनं सिद्धयति। यथा न्यायदर्शनस्य मूलम् उद्देश्यं जगतः ज्ञानतत्त्वानां समीक्षणम् ध्यान-धारणादिभिः उपायैः आत्मनः साक्षात्कारः, मनःशान्तेश्च साम्यावस्थायाः उपायानां प्रतिपादनम् अस्ति। एवं च आत्मनः आत्मेश्वरपदार्थानां च परस्परं साधर्म्यस्य एवं च वैधर्म्यस्य सूक्ष्मतानां ज्ञानप्रदानकरणम् तत्त्वज्ञानस्य च उपलब्धौ प्रकाश-करणम् इति वैशेषिक-दर्शनस्य लक्ष्यम् अस्ति। वैशेषिक-दर्शने सप्तपदार्थानां सम्यक् विवेचनम् अस्ति। अस्य दर्शनस्य अनुसारं जीवात्मनः परमात्मनः च अस्तित्वम् अस्ति। पदार्थज्ञानस्य वैशिष्ट्यं प्रतिपादनत्वाद् एव अस्य नाम “वैशेषिक दर्शनम्” इति अस्ति।