परिचयः |
अद्य एषः कालः समुपस्थितः यत् मानवस्य जीवने कार्यव्यग्रता तथा संवृद्धा यत् सः पुस्तकालयं गत्वा ग्रन्थान् पठितुंन शक्नोति। विपणीं गत्वा वा पुस्तकानि क्रीणीयात् तथा समयः न अस्ति। पठनस्य इच्छुकाः पुस्तकालयं निर्वहेयुःइत्यपि अस्मिन् युगे योग्यं न भाति। पठनेच्छुकानाम् एतां समस्यां मनसि निधाय वयम् अत्र अणुपुस्तकालयस्यप्रारम्भं कुर्वन्तः स्मः। अस्माकं प्रयासः अस्ति यत् संस्कृतपाठकानां कृते तस्य संस्कृतसाहित्यस्य दर्शनं कारयितुंशक्नुयाम यत् यस्य अवारापारः न वर्तते एव। अस्मिन् पुटके पाठकानां कृते तस्य संस्कृतस्य प्रचलिताः दुर्लभाःसुलभाः उपयोगिनः च ग्रन्थाः केवलं एकया तर्जन्या अङ्गुल्या उपयोगेन प्राप्तुं सुलभाः यथा स्युः तथा यतामहे। एषःअणुपुस्तकालयः येषु भागेषु विभक्तः अस्ति ते सन्ति |