परिचयः
पुरातने भारते संस्कृतस्य याः संस्थाः आसन् । तासां शिक्षण –पद्धतिः पारम्परिका आसीत् । यथा शनैः शनैः समयः परिवर्तितः सा पारम्परिका शिक्षणपद्धतिः विनष्टा जाता । ते सर्वे महाविद्यालयाः गुरुकुलानि लघुशिक्षणसंस्थाः विनष्टाः ये पारम्परिकरूपेण पाठयन्ति स्म । समयस्य परिवर्तनेन या पारम्परिकी पाठनपद्धतिः परिवर्तिता आसीत् तत्रापि तादृश्यः संस्थाः सुरक्षिताः अभवन् ये सङ्घर्षसमये अपि पारम्परिकरूपेण पाठयन्ति स्म । मध्ये तादृशाः अपि विद्वांसः आसन् ये बहुप्रयासेन पारम्परिकपद्धतिं रक्षितवन्तः । अधुना भारते तादृशानि गुरुकुलानि सन्ति यैः पारम्परिकपद्धतिः परिवर्तिता परन्तु तादृशानि विद्यापीठानि अपि अधुना सन्ति ये आधुनिकीं शिक्षापद्धतिं पारम्परिकरूपेण चालयन्तः सन्ति । केचन पारम्परिकशिक्षणसंस्थाः ये पारम्परिकशिक्षणं कारयन्ति ।