परिचयः
यजुर्वेदः सम्प्रति भागद्वये समुपलभ्यते । शुक्लयजुर्वेदः , कृष्णयजुर्वेदश्चेत्येतौ द्वौ भागौ स्तः । अनयोः अन्तरमिदमस्ति यत्-शुक्लयजुर्वेदे केवलं मन्त्राः एव सन्ति ,विनियोगवाक्यानि न सन्ति परं कृष्णयजुर्वेदे छन्दोबद्धमन्त्राणां गद्यात्मकविनियोवाक्यानाञ्च मिश्रणमस्ति । अयं वेदः कर्मकाण्डपरकः अस्ति , अस्मिन् वेदे यज्ञानुष्ठानसम्बन्धिनः मन्त्राः सन्ति । शुक्लयजुर्वेदस्य मूलसंहितायाः नाम “ वाजसनेयि-संहिता ” अस्ति । अस्याः संहितायाः द्वे शाखे , एकः ब्राह्मणग्रन्थः , एकः आरण्यकग्रन्थः , द्वे च उपनिषदौ स्तः । अत्र विशेषरूपेण यज्ञानां विस्तृतं विवरणमस्ति । कृष्णयजुर्वेदस्य चतस्रःशाखाः , एकः ब्राह्मणग्रन्थः , एकःआरण्यकग्रन्थः , तिस्र उपनिषदः अष्ट च सूत्रग्रन्थाः सन्ति ।