कर्नाटकसंस्कृतविश्वविद्यालयः संस्कृतभाषायाः अभिवृद्धये कर्नाटकसर्वकारेण संस्थापितः । अस्याः देवभाषायाः अतिप्राचीनाः, उज्ज्वलाश्च वैज्ञानिक-साहित्यिक-सांस्कृतिकसम्प्रदायाः परम्पराश्च विद्यन्ते । गद्य-पद्य-नाटक-नाट्य-शिल्पकला-वर्णचित्र-ललितकला-वैद्यशास्त्र-तत्त्वज्ञान-क्षेत्रेषु अस्याः भाषायाः योगदानं भारतीयविद्वद्भिः एतावता कालेन यावत् साधितं, तत्तु असदृशम् ।
बहोः कालात् महता यत्नेन कर्नाटकसंस्कृतविश्वविद्यालयः २०१०तमे वर्षे संस्थापितः । संस्कृतभाषायाः साहित्यस्य च अध्ययनं मैसूरुमहाराजैः महत्प्रोत्साहं प्रापत् । १५० वर्षेभ्यः प्राक् आरब्धया श्रीमन्महाराजसंस्कृतमहापाठशालया सह अनेकाः पाठशालाः राज्येऽस्मिन् संस्कृतशास्त्रपाठनरताः सन्ति । शतशः वेदसंस्कृतपाठशालाः अपि राज्ये क्रियाशीला वर्तन्ते । एताः सर्वाः पाठशालाः सम्मेल्य, काञ्चन समानशिक्षणव्यवस्थां निर्माय, राष्ट्रिय-अन्ताराष्ट्रियस्तरेषु संस्कृतसंशोधनस्य औन्नत्यं साधयितुम्, छात्रेभ्यः अध्यापकेभ्यश्च अवकाशाधिक्यं कल्पयितुं च विश्वविद्यालयोऽयं समारब्धः ।
कर्नाटकसंस्कृतविश्वविद्यालयस्य प्रधानतया चत्वारि अङ्गानि विद्यन्ते –
१. बोधनाङ्गम्
२. संशोधनाङ्गम्
३. प्रसाराङ्गम्
४. प्रशासनाङ्गं चेति ।
एतद्द्वारा विश्वविद्यालयस्य क्रियाशक्तिं संवर्ध्य, कर्णाटकराज्यस्य संस्कृतसम्बन्धिकार्याणि निर्वर्तयितुं प्रयत्नः प्रचलति ।
रामनगरमण्डलस्य मागडि जनपदे तिप्पसन्द्रग्रामे विश्वविद्यालयपरिसरनिर्माणार्थं १०० एकर् परिमिता भूमिः सर्वकारेण प्रदत्ता वर्तते । सम्प्रति द्वे घटकमहाविद्यालये, दश अनुदानसहिताः नव अनुदानरहिताश्च महाविद्यालयाः कर्नाटकसंस्कृतविश्वविद्यालयसम्बद्धाः वर्तन्ते । स्नातकपूर्वसंस्कृतशिक्षणनिर्वहणार्थं विश्वविद्यालयेन संस्कृतशिक्षणनिर्देशनालयः संस्थापितः । निर्देशनालयेन मान्यताः प्राप्तवत्यः ३२५ संस्कृतपाठशालाः राज्ये सन्ति ।
कर्नाटकसंस्कृतविश्वविद्यालयस्य ध्येयोद्देशाः एवंरूपेण सन्ति
१. संस्कृतभाषायाः, साहित्यस्य, व्याकरण-साङ्ख्य-योग-न्याय-वैशेषिक-मीमांसा-वेदान्तादिशास्त्राणां, वेदानां, जैनशास्त्रधर्मशास्त्रादीनां, पूरकशिक्षणस्य च बोधन-संशोधनयोश्च अत्युन्नतसंस्थारूपेण
कार्यनिर्वहणम् ।
२. कर्णाटकराज्यस्य संस्कृतसाहित्यस्य विशिष्टानि गुणलक्षणानि मनसि निधाय वेदागमानां सजातीयसाहित्याध्ययनस्य साम्प्रदायिकपद्धतेः संरक्षणं, पोषणं, संवर्धनञ्च ।
३. वेदेषु, उपर्युक्तेषु शास्त्रादिषु च निहितस्य ज्ञानराशेः महत्त्वस्य, आधुनिकजगति तस्य प्रायोगिकतायाश्च प्रसारः ।
४.
१.भगवद्गीताधारितं प्राशासनिकविज्ञानम्
२.योगाधारितं मानवमनश्शास्त्रम्
३.परिसरसमतोलनसम्बद्धम् आरोग्यसम्बद्धं च साम्प्रदायिकज्ञानम्
४.पुरातत्वशास्त्रम्
५.प्राचीनविज्ञानम्
६.आगमशास्त्रम्
७.आयुर्वेदः
८.विज्ञानमानविकशास्त्राणि
९.नटनकलाः
१०.ललितकलाः संवादविज्ञानं च
११.वेदाध्ययनं तथा वेदभाषाध्ययनम् इत्येतेषु अन्येषु च विज्ञानक्षेत्रेषु उन्नताध्ययन-संशोधनार्थम् अवसरप्रकल्पनं, तस्य निर्वहणं च ।
५. वेदेषु शास्त्रेषु च ज्ञानसंवर्धनस्य प्रज्ञायाश्च उन्नतस्तरसाधने दृष्टानां सविवेचनानां तर्कसम्मतविधानानां वैज्ञानिकमनोभावानाञ्च प्रकटीकरणम् ।
६. भारतीयज्ञानपरम्परायाः पुनरुज्जीवनम्, संवर्धनं च; वेदेषु संस्कृतसाहित्ये च विद्यमानानां वैज्ञानिकविचाराणां कृषि-खगोलशास्त्र-जीवशास्त्र-रसायनशास्त्र-मानवशास्त्र-तन्त्रज्ञान-न्यायशास्त्र-प्रशासन-गणित-लोहशास्त्र-भौतशास्त्र-सामाजिकविज्ञानक्षेत्रेषु समन्वयनं; आधुनिकविज्ञानस्य तन्त्रज्ञानस्य च अध्ययने योगस्य समन्वयश्च ।
७. वेदानां प्रमाणभूतभाष्याणां च विषये जनजागरणम् ।
८. समानध्येयोद्देशयुक्तानाम् अन्येषां विश्वविद्यालयानां संस्थानां च प्रयत्नस्य ऐक्यं साधयितुं, बलवर्धनार्थं च तादृशां वेद-संस्कृत-अध्ययनसंस्थानां संशोधनसंस्थानां च जालं विरच्य, परस्परं संवादादिसम्पर्कसाधनानां प्रकल्पनम् ।
९. आधुनिकभारतीयभाषासु, विदेशीयभाषासु च संस्कृत-वेद-विचारसम्बद्धस्य साहित्यराशेः निर्माणम् ।
१०. सर्वेषां वेदानां, शास्त्रग्रन्थानां, तत्सम्बद्धानाञ्च ग्रन्थानां सव्याख्यं कन्नडादिषु भाषासु अनुवादः, प्रकटनं च ।
११. वेदपठनस्य, तत्सम्बद्धानां साम्प्रदायिकविधीनां ध्वनिरूपेण, ध्वनि-दृश्यरूपेण च संरक्षणम् ।
१२. विश्वविद्यालये अन्तर-क्षेत्रीयाध्ययनस्य संशोधनस्य च प्रोत्साहनं; परस्परसौहार्दभावेन तत्सम्बद्धानां कार्याणां विश्वविद्यालयस्तरे प्रचालनार्थम् अवसरकल्पनम् ।
१३. संस्कृतभाषायां प्राच्याध्ययनकेन्द्रनिर्माणं; तत्र अमूल्यानां हस्तप्रतीनां पुरातनकृतीनां च सङ्ग्रह-संरक्षणव्यवस्थाकल्पनं; सविमर्शं तासां कृतीनां सम्पादनं प्रकटनं च ।
१४. उपलभ्यमानानां हस्तप्रतीनाम्, आकरग्रन्थानाञ्च सङ्गणकद्वारा डिजिटल्-रूपेण सङ्ग्रहः ।
१५. विश्वविद्यालयेन, विभागैर्वा अत्युन्नतस्तरीयशोधपत्रिकाप्रकटनम् ।
१६. प्राचीनज्ञानपद्धतीनाम् संवर्धनदृष्ट्या विचारगोष्ठी-सम्मेलन-कार्यागार-विद्वद्गोष्ठ्यादीनाम् आयोजनम् ।
१७. विश्वविद्यालयस्य निर्वहणात् बहिर्भूतानां विद्यासंस्थानां संयोजितपाठशाला/ पाठशालारूपेण विश्वविद्यालयव्यवस्थायाम् अन्तर्भाव्य विशेषावकाशकल्पनम् ।
१८. विश्वविद्यालयस्य प्राध्यापकैः, बोधकैः, विभागैः, विशेषसंशोधनासंस्थाभिः च तादृशीनां संयोजितमहापाठशाला /पाठशालानां बोधन-मार्गदर्शनप्रदानम् ।
१९. विश्वविद्यालयस्य पूर्वोक्ताः ये ध्येयोद्देशाः, तत्सम्बद्धानां, प्रासङ्गिकाणां च इतरेषां कार्याणां निर्वर्तनम् ।
२०. काले काले रूपितानां शासनानां द्वारा, विधीयमानानां नियमानां पालनम् अनुसृत्य च विविधाभ्यः विद्यासंस्थाभ्यः यत्किञ्चिदुद्दिश्य पूर्णरूपेण, भागशः वा मान्यतादानम्, तस्य निर्वहणम्, मान्यतायाः स्थगनं च ।
२१. विश्वविद्यालयस्य ध्येयोद्देशानाम् उत्तेजनार्थं यानि कार्याणि आवश्यकानि, पूर्वोक्ताधिकारेषु प्रासङ्गिकानि तद्भिन्नानि वा, तेषां निर्वर्तनम् ।
२२. शासनद्वारा विश्वविद्यालयस्य प्राधिकारत्वेन उद्घोषितानां निकायानां निर्वहणम् ।
२३. विविधेषु शास्त्रेषु प्रौढसंशोधनकार्याणि निर्वर्तयितुं अध्ययनपीठानां संस्थापनम् ।
पूर्वोल्लिखितान् ध्येयोद्देशान् साधयितुं विश्वविद्यालयेन बहूनि शैक्षणिककार्याणि समारब्धानि सन्ति
१. संस्कृतपाठशालासु, विश्वविद्यालयेषु च व्यवस्थायाः समीकरणं, बलवर्धनं च ।
२. छात्रवृत्तिदानेन छात्राणां प्रेरणा ।
३. पाठशालासु, विश्वविद्यालयेषु च उत्तम-ग्रन्थालयव्यवस्था ।
४. विश्वविद्यालयेषु छात्रावासनिर्माणं, स्थानीय-धनदातॄणां साहाय्येन, सर्वकारस्य साहाय्येन च छात्रेभ्यः उत्तमरीत्या अशनवसनव्यवस्था ।
५. मण्डलस्तरे, उपमण्डलस्तरे च छात्रद्वारा संस्कृतोत्सवाचरणं, संस्कृतप्रतियोगितानाम् आयोजनद्वारा छात्रेषु उत्साहपूरणम् ।
६. प्रतिवर्षं विद्वन्मध्यमा-विद्वदुत्तमा-वेदशाखादिषु उत्तमैः अङ्कैः ये सर्वप्राथम्यं प्राप्नुवन्ति, तेभ्यः निधिद्वारा, पीठाधीशानां द्वारा सार्वजनिक-क्षेत्रेभ्यः च धनदानेन प्रोत्साहः, प्रमाणपत्रदानं च ।
७. परिशिष्टवर्गीयाणां संस्कृताध्ययनाय प्रत्येक-रूपेण विशेषव्यवस्था ।
८. छात्रेभ्यः संस्कृतगान-क्रीडास्पर्धानाम् आयोजनम् ।
९. पाठ्यांशे आङ्ग्लभाषायाः सङ्गणकशिक्षणस्य च योजनं, काव्य-साहित्य-विद्वत्कक्ष्यासु अनिवार्यतया प्रकल्पनम् ।
१०. प्रथमाकक्ष्याम् आ विद्वत्कक्ष्यायाः ये पाठ्यांशाः सन्ति, तेषां पाठ्यांशानां वैज्ञानिकपद्धत्या परिष्कारः, प्राचीनज्ञानम् आधुनिकज्ञानं चेत्युभयमपि यथा सम्मिलितं स्यात् तथा पाठ्यपुस्तकनिर्माणम् ।
११. उत्तरकर्णाटके, हैदराबाद्कर्णाटके, उत्तरकन्नडे, दक्षिणकर्णाटके, मध्यकर्णाटके च संस्कृतस्य उन्नतसंशोधनकेन्द्राणाम् उद्घाटनं तत्र अध्ययनाय संशोधनाय च योग्यवातावरण-निमाणं, स्थानीयानां संस्कृताध्ययनसंस्थानां च सहयोगः ।
१२. पञ्चाशतः वर्षेभ्यः प्रचाल्यमानासु प्राचीन-संस्कृतपाठशालासु निर्दिष्टकार्यक्रमाणाम् आयोजनम् । तासु पाठशालासु पीठोपकरणानां संस्कृतग्रन्थानां च व्यवस्थायै प्रोत्साहः ।
१३. बि.ए, एम्.ए पदवीधराणां समाजे या आद्यता अस्ति, सा विद्वत्पदवीधराणाम् अपि यथा स्यात् तथा व्यवस्था ।
जालपत्र