परिचयः
वैदिकसाहित्ये ज्ञानस्य कश्चन महान् राशिः वर्तते। महतः तस्य ज्ञानराशेः प्राप्त्यै मानवः अनादिकालात् प्रयासरतः वर्तते। कस्यचित् अपि कार्यस्य सफलतायै साधनानां महती आवश्यकता भवति। वैदिकसाहित्यस्थं ज्ञानं प्राप्तुं भारतीयैः मनीषिभिः यानि उपकारकाणि साधनानि अन्विष्टानि तानि शास्त्राणि कथ्यन्ते। तानि शास्त्राणि अस्मिन् पुटके प्रस्तूयन्ते। तथा च अस्मिन् पुटके दर्शनानि स्मृतयः उपस्मृतयः चापि प्रस्तूयन्ते ।