परिचयः |
मननात् त्रायते ।भारतीयसंस्कृतेः मूलं वेदाः । ते च वेदाः मन्त्ररूपाः। तस्मात् परम्परया मन्त्राः अपि अस्माकं संस्कृतेः मूलमेव । मूलस्य च अवबोधः, अनुभूतिश्च सर्वाङ्गीणविकासाय आवश्यकमेव । वेदाः मन्त्राकराः । आकरेषु च एतेषु मन्त्रमौक्तिकम् अन्वेष्टुं जालपत्रप्रयोकतॄणां क्लेशः समयनाशो वा मा भवतु, तन्निमित्तं श्रव्यरूपेण जालपत्रेषु उपलब्धाः वेदशाखादिविभागानुसारेण विभज्य मन्त्राः प्रस्तूयन्ते । |