संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » प्रश्नमञ्चः » व्याकरणशास्त्रम्

व्याकरणशास्त्रम्

2.व्याकरणशास्त्रम्

6. पाणिनीयव्याकरणस्य प्रतिनिधिग्रन्थः कः विद्यते ?


उत्तरम् – पाणिनीयव्यकरणस्य प्रतिनिधिग्रन्थः ‘अष्टाध्यायी ’ नामको ग्रन्थः ।

7. अष्टाध्याय्याः रचयिता प्रणेता वा को विद्यते ?


उत्तरम् – अष्टाध्याय्याः रचयिता महर्षिः पाणिनिः वर्तते ।

8. अष्टाध्याय्यां कति सूत्राणि सन्ति ?


उत्तरम् – अष्टाध्याय्यां ३९९६ सूत्राणि सन्ति । एकत्र ३९८१ । एकस्मिन् मते ३८६३ सूत्राणि सन्ति ।

9. तत्र प्रथमं सूत्रं किमस्ति ? अन्तिमञ्च किम् ?


उत्तरम् – प्रथमं सूत्रमस्ति ‘वृद्धिरादैच् ’अन्तिमञ्च – ‘अ अ ’ इति ।

10. अष्टाध्यायीसूत्राणां मूलं किमस्ति ?


उत्तरम् – अष्टाध्यायीसूत्राणां मूलं चतुर्दशमाहेश्वरसूत्राणि सन्ति ।

3.व्याकरणशास्त्रम्

11. अष्टाध्यायी केन विरचिता ?


उत्तरम् – अष्टाध्यायी महर्षिणा पाणिनिना विरचिता ।

12. अस्य पाणिनेः कोशेषु कति पर्यायाः नामानि वा उपलभ्यन्ते तानि च कानि ?


उउत्तरम् – अस्य पाणिनेः कोशेषु षड् पर्यायाः नामानि वा उपलभ्यन्ते, तद्यथा –
१. पाणिनः । ४. शालङ्किः ।
२. पाणिनिः । ५. शालातुरीयः ।
३. दाक्षीपुत्रः । ६. आहिकश्चेति ।

13. पाणिनेः पितुः किं नाम् ?


उत्तरम् – पाणने पितुर्नाम ‘पणि ’ इत्यासीत् । अपरञ्च केचन विद्वांसः ‘शलङ्क ’ इति कथयन्ति ।

14. पाणिनेः पितामहस्य किं नाम् ?


उत्तरम् – पाणिनेः पितामहस्य नाम ‘शलङ्क ’ इत्येव कथयन्ति । विदुषां मध्ये मतैक्यं नास्ति ।

15. पाणिनेः मातुः किं नाम् ?


उत्तरम् – पाणिनेर्मातुर्नाम दाक्षी इत्यासीत् ।

4.व्याकरणशास्त्रम्

16. अष्टाध्यायी इत्यस्य कोऽर्थः ? अयं ग्रन्थः केन विरचितः ?


उत्तरम् – अष्टौ अध्यायाः सन्ति यस्मिन् ग्रन्थे स अष्टाध्यायीग्रन्थः । अयं ग्रन्थः महर्षिणा पाणिनिना विरचितः ।

17. अस्य ग्रन्थस्य का उपयोगिता ?


उत्तरम् – अयं ग्रन्थः व्याकरणशास्त्रस्य मूलस्त्रोतः ।

18. अक्षरसमाम्नायस्य कोऽर्थः ?


उत्तरम् – अक्षराणाम् = अकारादाभ्य हकारपर्यन्तानां वर्णानां संग्रहः = अक्षरसमाम्नायः ।

19. किम्भूताय पाणिनये जनाः नमस्कुर्वन्ति ?


उत्तरम् – अस्मिन् विषये सुप्रसिद्धमस्ति – येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्त्तं तस्मै पाणिनये नमः ।

20. पाणिनिना महेश्वरात् कति सूत्राणि अधिगतानि ?


उत्तरम् – पाणिनिना चतुर्दशसूत्राणि महेश्वरादधिगतानि ।

5.व्याकरणशास्त्रम्

21. चतुर्दशसूत्राणि कानि सन्ति ?


उत्तरम् – चतुर्दशसूत्राणि सन्ति – १. अइउण् २. ऋलृक् ३. एओङ् ४. ऐऔच् ५. हयवरट् ६. लण् ७. ञमङणनम् ८. झभञ् ९. घढधष् १०. जबगडदश् ११. खफछठथचटतव् १२. कपय् १३. शषसर् १४. हल्

22. एतानि सूत्राणि ‘माहेश्वरसूत्राणि ’ कथं कथयन्ति वैयाकरणाः ?


उत्तरम् – एतानि सूत्राणि महेश्वरात् (शङ्करात्) आगतानि सन्ति ;अत एव माहेश्वर-सूत्राणि कथ्यन्ते ।

23. पाणिनिना कदा प्राप्तानि एतानि सूत्राणि ?


उत्तरम् – अस्मिन् विषये नन्दिकेश्वराचार्येणोक्तमस्ति –
नृत्तावसाने नटराजराजो ननाद ढक्कां नव पञ्चवारम् ।
उद्धर्तुकामः सनकादिसिद्धानेतद् विमर्शे शिवसूत्रजालम् ।।

24. सूत्रस्य किं लक्षणं भवति ?


उत्तरम् – सूत्रस्य लक्षरमस्ति – अल्पाक्षरमसन्दिग्धं सारवद् विश्वतोमुखम् ।
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ।।

25. व्याकरणशास्त्रस्यानुबन्धचतुष्टयं किं भवति ?


उत्तरम् – व्याकरणशास्त्रस्यैव किमु, सर्वशास्त्राणामनुबन्धचतुष्टयमस्ति –
सम्बन्धश्चधिकरी च विषयश्च प्रयोजनम् ।
ग्रन्थादौ तेन वक्तव्यं तस्माच्छास्त्रं प्रशस्यते ।।


6.व्याकरणशास्त्रम्

26. व्याकरणप्रयोजनविषये ‘रक्षोहागमलघ्वसन्देहाः प्रयोजनम् ’ कस्योक्त्तिरियम् ?


उत्तरम् – व्याकरणप्रयोजनविषये महर्षेः पतञ्जलेः उक्त्तिरियम् ।

27. अष्टाध्याय्याः प्रत्येकस्मिन् अध्याये कति पादाः भवन्ति ?


उत्तरम् – अष्टाध्याय्याः प्रत्येकस्मिन् अध्याये चत्वारः पादाः भवन्ति ।

28. पाणिनेः प्रमुखः शिष्यः कः आसीत् ?


उत्तरम् – पाणिनेः प्रमुखः शिष्यः कौत्सः (वरतन्तुशिष्याद्भिन्नः) आसीत् ।

29. पाणिनेः जन्म कुत्र स्वीक्रियते ? कुत्रत्यो वा अयम् ?


उत्तरम् – पाणिनेः जन्मस्थानविषये मतद्वयं प्रचलितमस्ति । ऐतिहासिकाः विद्वांसः ‘शलातुर ’ इति कथयन्ति । अष्टाध्याय्यामुदाहरणमुखेन – वाहीकदेश इति ।

30. पाणिनीयव्याकरणस्य सामान्यं किं नाम ?


उत्तरम् – पाणिनीयव्याकरणस्य सामान्यं नाम शब्दानुशासनमस्ति ।

7.व्याकरणशास्त्रम्

31. पाणिनेः प्रमुखो ग्रन्थः कः ?


उत्तरम् – पाणिनेः प्रमुखग्रन्थस्य नाम विद्यते – ‘अष्टाध्यायी ’ ।

32. अष्टाध्याय्यी किमन्वर्थकं नाम ?


उत्तरम् – अष्टाध्याय्यामष्टौ अध्यायाः सन्त्यतोऽष्टाध्यायी ।

33. अष्टाध्याय्याः अपरं किं नाम ?


उत्तरम् – अष्टाध्याय्या अपरं नाम – काशिकेति, अपरञ्च ‘अष्टक ’ इत्यपि कथयन्ति ।

34.प्रश्नः – कि व्याकरणमिदं लौकिकानां शब्दानामेव व्युत्पत्तिं ददाति ?


उत्तरम् – प्रस्तुतं व्याकरणमिदं लौकिकानां वैदिकानाञ्च शब्दानां प्रातिनिध्यं करोति ।

35. पाणिनीयव्याकरणस्यापरं वैशिष्टयं किमस्ति ?


उत्तरम् – पाणिनीयव्याकरणस्य (अष्टाध्याय्याः) सर्वतोऽधिकं वैशिष्टयमस्ति – स्वरप्रकरणम् ।

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​