2.व्याकरणशास्त्रम्
उत्तरम् – पाणिनीयव्यकरणस्य प्रतिनिधिग्रन्थः ‘अष्टाध्यायी ’ नामको ग्रन्थः ।
उत्तरम् – अष्टाध्याय्याः रचयिता महर्षिः पाणिनिः वर्तते ।
उत्तरम् – अष्टाध्याय्यां ३९९६ सूत्राणि सन्ति । एकत्र ३९८१ । एकस्मिन् मते ३८६३ सूत्राणि सन्ति ।
उत्तरम् – प्रथमं सूत्रमस्ति ‘वृद्धिरादैच् ’अन्तिमञ्च – ‘अ अ ’ इति ।
उत्तरम् – अष्टाध्यायीसूत्राणां मूलं चतुर्दशमाहेश्वरसूत्राणि सन्ति ।
3.व्याकरणशास्त्रम्
उत्तरम् – अष्टाध्यायी महर्षिणा पाणिनिना विरचिता ।
उउत्तरम् – अस्य पाणिनेः कोशेषु षड् पर्यायाः नामानि वा उपलभ्यन्ते, तद्यथा –
१. पाणिनः । ४. शालङ्किः ।
२. पाणिनिः । ५. शालातुरीयः ।
३. दाक्षीपुत्रः । ६. आहिकश्चेति ।
उत्तरम् – पाणने पितुर्नाम ‘पणि ’ इत्यासीत् । अपरञ्च केचन विद्वांसः ‘शलङ्क ’ इति कथयन्ति ।
उत्तरम् – पाणिनेः पितामहस्य नाम ‘शलङ्क ’ इत्येव कथयन्ति । विदुषां मध्ये मतैक्यं नास्ति ।
उत्तरम् – पाणिनेर्मातुर्नाम दाक्षी इत्यासीत् ।
4.व्याकरणशास्त्रम्
उत्तरम् – अष्टौ अध्यायाः सन्ति यस्मिन् ग्रन्थे स अष्टाध्यायीग्रन्थः । अयं ग्रन्थः महर्षिणा पाणिनिना विरचितः ।
उत्तरम् – अयं ग्रन्थः व्याकरणशास्त्रस्य मूलस्त्रोतः ।
उत्तरम् – अक्षराणाम् = अकारादाभ्य हकारपर्यन्तानां वर्णानां संग्रहः = अक्षरसमाम्नायः ।
उत्तरम् – अस्मिन् विषये सुप्रसिद्धमस्ति – येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्त्तं तस्मै पाणिनये नमः ।
उत्तरम् – पाणिनिना चतुर्दशसूत्राणि महेश्वरादधिगतानि ।
5.व्याकरणशास्त्रम्
उत्तरम् – चतुर्दशसूत्राणि सन्ति – १. अइउण् २. ऋलृक् ३. एओङ् ४. ऐऔच् ५. हयवरट् ६. लण् ७. ञमङणनम् ८. झभञ् ९. घढधष् १०. जबगडदश् ११. खफछठथचटतव् १२. कपय् १३. शषसर् १४. हल्
उत्तरम् – एतानि सूत्राणि महेश्वरात् (शङ्करात्) आगतानि सन्ति ;अत एव माहेश्वर-सूत्राणि कथ्यन्ते ।
उत्तरम् – अस्मिन् विषये नन्दिकेश्वराचार्येणोक्तमस्ति –
नृत्तावसाने नटराजराजो ननाद ढक्कां नव पञ्चवारम् ।
उद्धर्तुकामः सनकादिसिद्धानेतद् विमर्शे शिवसूत्रजालम् ।।
उत्तरम् – सूत्रस्य लक्षरमस्ति – अल्पाक्षरमसन्दिग्धं सारवद् विश्वतोमुखम् ।
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ।।
उत्तरम् – व्याकरणशास्त्रस्यैव किमु, सर्वशास्त्राणामनुबन्धचतुष्टयमस्ति –
सम्बन्धश्चधिकरी च विषयश्च प्रयोजनम् ।
ग्रन्थादौ तेन वक्तव्यं तस्माच्छास्त्रं प्रशस्यते ।।
6.व्याकरणशास्त्रम्
उत्तरम् – व्याकरणप्रयोजनविषये महर्षेः पतञ्जलेः उक्त्तिरियम् ।
उत्तरम् – अष्टाध्याय्याः प्रत्येकस्मिन् अध्याये चत्वारः पादाः भवन्ति ।
उत्तरम् – पाणिनेः प्रमुखः शिष्यः कौत्सः (वरतन्तुशिष्याद्भिन्नः) आसीत् ।
उत्तरम् – पाणिनेः जन्मस्थानविषये मतद्वयं प्रचलितमस्ति । ऐतिहासिकाः विद्वांसः ‘शलातुर ’ इति कथयन्ति । अष्टाध्याय्यामुदाहरणमुखेन – वाहीकदेश इति ।
उत्तरम् – पाणिनीयव्याकरणस्य सामान्यं नाम शब्दानुशासनमस्ति ।
7.व्याकरणशास्त्रम्
उत्तरम् – पाणिनेः प्रमुखग्रन्थस्य नाम विद्यते – ‘अष्टाध्यायी ’ ।
उत्तरम् – अष्टाध्याय्यामष्टौ अध्यायाः सन्त्यतोऽष्टाध्यायी ।
उत्तरम् – अष्टाध्याय्या अपरं नाम – काशिकेति, अपरञ्च ‘अष्टक ’ इत्यपि कथयन्ति ।
उत्तरम् – प्रस्तुतं व्याकरणमिदं लौकिकानां वैदिकानाञ्च शब्दानां प्रातिनिध्यं करोति ।
उत्तरम् – पाणिनीयव्याकरणस्य (अष्टाध्याय्याः) सर्वतोऽधिकं वैशिष्टयमस्ति – स्वरप्रकरणम् ।