परिचयः |
भारतीयसभ्यता प्राचीनासु सभ्यतासु अन्यतमा काचित् सभ्यता वर्तते। एतस्याः अपेक्षया अपि उत्तरवर्तिन्यः नव्याः सभ्यताः नष्टाः । परन्तु एषा सभ्यता अद्य अपि प्रवर्धते एव। एतस्य मूलकारणं वर्तते अस्माकीनानाम् ऋषीणां ज्ञाननिधिः यः वेदनाम्ना ज्ञायते। वेदाः अस्मिन् विश्वस्थिते साहित्ये प्राचीनतमं साहित्यं वर्तते। वेदेषु सर्वविधं ज्ञानं निगूढं वर्तते। वर्तमानसमये विश्वे अस्मिन् यत् किमपि विजृम्भते तस्य सर्वस्य अपि मूलं वेदेषु एव अस्ति। न मानवजीवनसम्ब़द्धः विषयः कश्चन अस्ति यस्मिन् विषये ततः मार्गदर्शनं प्राप्तुं शक्यं न स्यात्। एतादृशस्य महतः ज्ञानराशेः कालं केचन निर्धारयन्ति। अस्माकीनानां मतं तु इदं यत् ज्ञानस्य राशिः अयम् अनादिः अनन्तः वर्तते। एतस्य ज्ञानराशेः विभागः एवं कृतः वर्तते – वेदसंहिताः , ब्राह्मणानि , आरण्यकानि , उपनिषदः च। एतत् सर्वम् अपि वैदिकसाहित्यम् इति उच्यते। |
Utmam
धन्यवादः
स्वागतम्।
Shobhnam