परिचयः
“उप “नि” इत्युसर्गपूर्वकात् “सद्” इति धातोः क्विप्- प्रत्येयकृते “उपनिषद्” इति शब्दः व्युत्पन्नः भवति । अत्र सद्-धातुः अनेकार्थकः अस्ति । अस्य विशरण-गत्यवसानादयः अनेके अर्थाः भवन्ति । अत्र त्रयोऽपि अर्थाः सङ्ग्ताः भवन्ति । उपनिषदिति सर्वानर्थकर-संसारं विनाशयति , संसारकरणभूतामविद्यां च शिथिलयति ब्रह्म च गमयति इति “उपनिषद्” । अथवा व्यवधान-रहितस्य सम्पूर्णज्ञानस्य प्रतिपादिकाः एव उपनिषदः अथवा गुरोः समीपमुपविश्य यत् ज्ञानं प्राप्येत् तद् ज्ञानमेव उपनिषद् इति । एवं अनेकैः विद्वद्भिः “उपनिषद्” इत्यस्य अनेके अर्थाः विहिताः सन्ति । वस्तुतः येन सांसारिकाज्ञानस्य नाशः भवेत् ब्रह्मज्ञानस्य च प्राप्तिः भवेत् सा एव “उपनिषद्” इति कथ्यते । सम्प्रति प्रायः (12) द्वादश उपनिषद्ग्रन्थाः समुपलब्धाः सन्ति , ते एव च मुख्याः सन्ति ।
श्वेताश्वतरोपनिषच्च श्रीमज्जीवानन्दविद्यासागरभट्टाचार्य्येण (कः)
सौजन्यम् स्रोतश्च—archive.org
ईशावास्योपनिषत्, (हरि नारायण आपटे) आनन्दाश्रममुद्रणालये (दः)
सौजन्यम् स्रोतश्च—archive.org
छान्दोग्योपनिषत्, (हरि नारायण आपटे) आनन्दाश्रममुद्रणालये (दः)
सौजन्यम् स्रोतश्च—archive.org
ब्रहदारण्यकोपनिषत्, (रङ्गरामानुजः) आनन्दाश्रममुद्रणालये (दः)
सौजन्यम् स्रोतश्च—archive.org
ईशकेनकठोपनिषदः, (दिगम्बरानुचरविरचिता) आनन्दाश्रममुद्रणालये (दः)
सौजन्यम् स्रोतश्च—archive.org
छान्दोग्योपनिषत्, (नित्यानन्दः) आनन्दाश्रममुद्रणालये (दः)
सौजन्यम् स्रोतश्च—archive.org