संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » कति गीताः सन्ति ?

कति गीताः सन्ति ?

geeta

कति गीताः सन्ति ?

 हा. एस् हेमलता, बेङ्गलूरु

गीता इति पदस्य श्रवणात् झटिति मनसि स्फुरति-भगवद्गीताग्रन्थः एव । साक्षात् भगवतः मुखारविन्दात् एषा वाणी निःसृता । अत एव भारतीयानां पवित्रतमः ग्रन्थः अभवत् एषः । गीतायाः प्रमुखः उद्देश प्रमुखः उद्देशः अस्ति तत्त्वबोधनम् । ‘गीता सुगीता कर्तव्याः किमन्यैः शास्त्रविस्तरैः ?’ इति उक्तिः तस्य सारवत्तां द्योतयति । अस्य सौन्दर्यात् विमोहिताः तत्त्वज्ञानिनः बहून् समानरूपान् ग्रन्थान् अरचयन् । महाभारते एव षोडश गीताभागाः सन्तीति श्रूयते । भागवतग्रन्थेषु बह्णयः गीतारचनाः वर्तन्ते । अन्येषु पुराणोषु अपि तत्तद्देवतानाम्ना गीतोपदेशः सङ्कल्पितः । सर्वासां गीतानां विषयः तु धर्मोपदेशः एव । तथापि रचनायां प्रस्तुतीकरणे च भिन्नता दरीदृश्यते । तेषां यथासाध्य़ं परिचयः अत्र क्रियते ।
आदौ महाभारतेः अन्तर्गतानां गीतानाम् अवलोकनं करवाम । शान्तिपर्वणि भीष्मः युधिष्ठिरं धर्मं बोधयति । तदवसरे पूर्वोक्तानाम् ऋषीणां वाक्यानि गीतारूपेण सङ्गृह्णाति । शान्तिपर्वणि एव बह्णयः गीताः निबन्द्धाः ।
महाभारतान्तर्गताः गीताः

1. भगवद्गीता – महाभारतस्य भीष्मर्वणि निबन्द्धा इयं गीता भगवता कृष्णेन अर्जुनाय उपदिष्टा वर्तते । भगवान् कृष्णः युद्धविमुखम् अर्जुनं स्वकर्म कर्तुं प्रचोदयति । प्रसिद्धस्य अस्य ग्रन्थस्य विषये अधिकतया कथनं नावश्यकम् ।

2. अनुगीता – महाभारतयुद्धस्य समाप्तेः अनन्तरं युधिष्ठिरः राज्यशासनभारं स्वीकृतवान् । अथ कदाचित् कृष्णार्जुनौ आनन्देन सम्भाषमाणौ आस्ताम् । तदा अर्जुनः गीतोपदेशं स्मरन् ‘पुनः तत् उच्यताम्’ इति कृष्णं प्रार्थयामास । तदा कृष्णः – ‘न च शक्यं पुनर्वक्तुमशेषेण धनञ्जय’ इति भगवद्गीतायाः पुननिर्माणस्य असाध्यतां कथयति । एतादृश्यः कृतयः न भूताः, न भविष्यन्ति न खलु । कृष्णेन अपि तस्य पुनर्निर्माणम् असाध्यमेव ष योगयुक्तेन तेन युद्धावसरे तत् निरूतितम् । एतादृशः अवसरः पुनः आगमिष्यति । तथापि गीतातत्त्वं सङ्क्षेपेण अन्यप्रकारेण श्रीकृष्णः विशदयति । काश्यपो नाम ब्राह्मणः सिद्धपुरुषमेकं सेवया तोषयित्वा तस्मात् धर्मबोधं यत् श्रृणोति तदेव अत्र ‘अनुगीता’ इति नाम्ना निबद्धम् । आश्वमेधिकपर्वणः षोडशात् अध्यायात् आरभ्य एकपञ्चाशत्तमाध्यापर्यन्तम् एषा गीता विस्तृता । चतुर्ष अध्यायेषु सिद्धेन काश्यपं बोधयता जीवस्य विविधाः गतयः चतुर्ष अध्यायेषु सिद्धेन काश्यपं बोधयता जीवस्य विविधाः गतयः, कर्मफलस्य अनिवार्यता, मोक्षप्राप्त्युपायः इत्यादयः वर्णिताः ।

3. ब्राह्मणगीता- अनुगीतापर्वणि एव अन्तर्गता अस्ति एषा गीता । ज्ञाननिष्ठः कश्चित् ब्राह्मणः स्वपत्नीं तत्त्वम् उपदिशति । निर्जने देशे सुखेन आसीनं पतिं तस्य भार्या उपसृत्य तम् अधिक्षिपन्ती –
कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता ।
न्यस्तकर्माणमासीनं कीनाशमविचक्षणम् ।।

इति अवोचत् । तदा ब्राह्मणः कर्मणाम् नित्यताम् , अगन्धस्य अस्पर्शस्य अरूपस्य ब्रह्मतत्त्वस्य विशेषं च ताम् उपादिशत् । पञ्चानां वायूनां लक्षणानि, ज्ञानयज्ञस्य विधिः इत्यादयः अपि तेन निरूपिताः । वाग्देवतायाः प्रभावः अत्र सम्यक् वर्णितः अस्ति । मनसा सह इन्द्रियाणां । तेषा सर्वेषा शास्ता एकः एव, न द्वितीयोऽस्ति । अध्यात्मरूपं महावनं प्रविष्टवन्तः पण्डिताः न शोचन्ति । अस्य वनस्य विस्तृतं विवेचनं दृश्यते अत्र । परशुरामस्य अलर्कमहाराजस्य अम्बरीषस्य च वृत्तान्ताः अपि अत्र सम्यक् निबद्धाः । लोभस्य हीनता, ममता, त्यागस्य आवश्यकता च धर्मजनकयोः संवादे वर्णिताः । कथारूपेण निबद्धानि अत्रत्यानि तत्त्वानि सुलभग्राह्याणि भवन्ति ।

4. अम्बरीषस्य आध्यात्मिकस्वाराज्यगीता – ब्राह्मणगीतायां सः ब्राह्मणः ‘त्रये वै रिपवो लोके नवधा गुणतः स्मृताः’ इति गुणत्रयस्य शत्रुत्वं निरूप्य तद्विषये शान्तिपरायणस्य अम्बरीषस्य गीताम उदाहरति । अस्यां गीतायां षट् श्लोकाः एव सन्ति । लोभं निगृह्य धृत्वा आत्मनि राज्यमिच्छेत् इति अस्याः सारः ।

5. मङ्किगीता – मनुष्यः धनार्जनाय बहुभिः प्रकारैःयतते । गथापि सः वाञ्छितं न प्राप्नोति । सुखी पुरुषः एवं भवति –
सर्वसाम्यमनायासं सत्यवाक्यं च भारत ।
निर्वेद्श्चाविधात्सा च यस्य स्यात् स सुखी नरः ।।
अस्मिन् विषये मङ्किरिति मुनेः गीता प्रसिद्धा वर्ततेः सः बहुवारं धनं प्राप्तुं प्रयत्नम् अकरोत् । एकदा वृषभद्वयं क्रीत्वा सः धुरि आरोप्य नयति स्म । मार्गमध्ये कश्चित् उष्ट्रः उपविष्टः । वृषभौ तं मध्ये कृत्वा अगच्छतकाम् । कुपितः उष्ट्रः सहसा उदतिष्ठत् । धुरः तस्य कण्ठे लग्नः वृषभौ कर्षन् उष्ट्रः सहसा उदतिष्ठत् । धुरः तस्य कण्ठे लग्नः । वृषभौ कर्षन् उष्ट्रः वेगेन धावनम् आरभत । तं दृष्ट्रा दुःखितः मङ्किः दैवस्य प्राबल्यं निरूप्य ‘सुखं’ स्वपिति निर्विण्णो निराशाः चार्यसाधने’ इति वैराग्यस्य सौख्यम् अनुमोदयति । एवं द्विचत्वारिंशता श्लोकैः स्वमनः अधिक्षिपन् कामलालसां निन्दति ।

6. बोध्यगीता – जनकमहाराजेन उक्ता एषा गीता अपि तृष्णाक्षय-सम्बन्धिनी वर्तते । सः वदति – ‘अनन्तमिव मे वित्तं यस्य मे नास्ति किञ्चन । मिथिलायां प्रदीप्तायां न मे दहति किञ्चन ।।’ अस्मिन्नेव विषये ययातिः बोध्यमुनिं प्रार्थयते – शमस्य प्राधान्यं निरूप्यताम् इति । सः मुनिः – ‘पिङ्गला कुररः सर्पः सार्ङ्कान्वेषणं वने । इषुकारः कुमारी च षडेते गुरवो मम’ इति षण्णां वर्तनेन पठितां नीतिं विवृणोति ।

7. पराशरगीता- जनकपराशरयोः सम्भाषणरूपिणी इयं गीता शान्तिपर्वणः अष्टसु अध्यायेषु प्रसृता वर्तते । ‘किं श्रेयः सर्वभूतानाम् अस्मिन् लोके परत्र च’ इति जनकस्य प्रश्नस्य उत्तररूपेण पराशरः ‘धर्म एव कृतः श्रेयान्’ इति वदति ।, कर्मफलस्य अनिवार्यता, पुण्यकर्मणः लाभः, धर्मेण धनसङ्ग्रहः, अतिथिसत्कारः, पञ्चविधानि ऋणानि, नाममहिमा, सदाचारः, गुरुजनसेवा, सत्सङ्गतिः , वर्णश्रमधर्माः, सामान्यधर्माः इत्यादयः अत्र सम्यक् उपदिष्टाः ।

8. हंसगीता- कदाचित् प्रजापतिः हंसरूपं धृत्वा चरति स्म । तदा साध्याः तम् उपसृत्य ‘तन्नः कार्यं पक्षिवर प्रशाधि यत्कार्याणां मन्यसे श्रेष्ठमेकम्’ इति अपृच्छन् । हंसः ‘ततो दमः सत्यमात्माभिगुप्तिः’ इति आदौ सङ्गेपेण उक्त्वा । अनन्तरं त्रिंशदधिकैः श्लोकैः तानि पुनः विवृणोति । ‘प्राज्ञः एको रमते ब्राह्मणानां प्राज्ञश्चैको बहुभिः जोषम् आस्ते । प्राज्ञ एको बलवान् दुर्बलोऽपि प्राज्ञ एषां कलहं नान्ववैति ।।’ इति तस्याः गीतायाः सारः ।

9. शम्पाकगीता – शम्पाको नाम ब्राह्मणः दुष्टपल्या पीडितः । भीष्मं सम्प्राप्य वैराग्यं परमसुखमिति उपदिशति । ‘नात्यकत्वा सुखम् आप्नोति नात्यक्त्वा विन्दते परम् । नात्यक्त्वा चाभ्यं शते त्यक्त्वा सर्वं सुखी भव’ इति अस्याः गीतायाः सारः ।

10. उतथ्यगीता – ब्रह्मविदां वरिष्ठः उतथ्यः राजानं मान्धातरं क्षात्रधर्मम् अस्यां गीतायाम् उपदिशति । ‘धर्माय राजा भवति न कामकरणाय वा । स्वधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते । ’ यदा पापो न वार्यते तदा सर्वत्र भयं प्रवर्धते । देवपूजाः पितृकार्याणि अतिथिसत्कारादयः च तिरोहिताः भवन्ति । धर्मे प्रवृद्धे, सर्वभूतानि वर्धन्ते । अतः दर्पसहितः अधर्मः सर्वधा त्यज्येत । अन्यथा ममेदमिति नैकस्य मनुष्येष्वतिष्ठति । एवम् उतथ्यः अध्यायद्वये धर्मस्य आवश्यकतां प्रतिपादयति । (१६१ श्लोकायः)

11. वामदेवगीता – वसुमनसो नाम राजा कदाचित् महर्षि वामदेवं प्रार्थयामास धर्मानुशासनं क्रियताम् इति । तदा वामदेवः ‘धर्ममेवायुवर्तस्व न धर्माद्विद्यते परम्’ इति आरभ्य राजा कदापि पूर्णोऽस्मीति न मन्यते । सः धर्मेषु गुरुप्रधानः, स्वयमर्थानुवेक्षिता, लोभेषु धर्मप्रधानः च स्यात् । राजानमनुवर्तन्ते प्रजाः … इत्येवं सप्तचत्वारिंशता श्लोकैः राजधर्मम् अनुशास्ति ।

12. ब्रह्मगीता – अस्मिन् नव एव श्लोकाः सन्ति । ब्राह्मणानाम् आश्रमधर्मः अत्र प्रतिपादितः । तपः ज्ञानं च सर्वफलं प्रदास्यतः । सूतसंहितायामपि अन्या ब्रह्मगीता वर्तते ।
भागवतमहापुराणान्तर्गताः गीताः

१. गोपीगीता – भक्तिप्रधाना इयं गीता रासक्रीडावसरे निबद्धा वर्तते । कालिन्दीपुलिनप्रदेशे कृष्णं विचिन्वत्यः गोपिकाः वं मधुरं गायन्ति । ‘न खलु गोपिकानन्दके भवान् अखिलदेहिनामन्तरात्मदृक्’ इति कृष्णतत्त्वं विज्ञातवत्यः एताः गोपिकाः । स तु प्रणतानां पापकर्षकः । तस्य कथामृतं तु श्रवणमङ्गतं श्रीमदाततं च ।

२. भमरगीतम् – श्रीकृष्णस्य मथुरागमनानन्तरं गोपिकाः तस्य दर्शनेन विरहिताः दुःखिताश्च अभवन् । ताः सान्त्वयितुं कृष्णः स्वमित्रम् उद्धवम् आदिदेश- ‘व्रजभूमिः गन्तव्या त्वया’ इति । कृष्णानुचरं तं वीक्ष्य प्रजस्त्रियः विरहं स्मृत्वा रोदनम् आरभन्त । काचित् मधुकरं दृष्ट्वा तं प्रियप्रस्थापितं दूतं कल्पयित्वा एवं गायति । प्रणयकोपः कृष्णभक्तिश्च अत्र मधुरतया सम्मलिते ।

३. युम्मगीतम् – गोप्यः क्षणमात्रमपि कृष्णविरहं न सहन्ते स्म । कृष्णे वनं जाते, तमनुद्रुतचेतसः कृष्णलीलाः प्रगायन्त्यः वासरान् निन्युः । एतादृशं मधुरं गीतमस्ति एतत् ।

४. उद्धवगीता – यथा भागवतस्य दशमस्कन्धः भक्तिप्रधानः, तथैव एकादशस्कन्धः तत्त्वप्रधानः अस्ति । भूभारावतरणं समाप्य श्रीकृष्णः स्वधाम गन्तुं कृतधीः अभवत् । तदा स्वमित्रस्य उद्धवस्य प्रार्थनया सः तम् उपदिशति । अस्मिन् अवसरे भगवान् बहुभिः दृष्टन्तैः आत्मज्ञानम् उपदिशति । आदौ अवधूतयदुसंवादद्वारा चतुर्विशतेः गरूणां परिचयं कारयति ।
पृथिवी वायुराकाशमापोऽग्निश्चचन्द्रमा रविः ।
कपोतेऽनगरः सिन्धुः पतङ्गो मधुकद् गजः ।।
मधुहा हरिणो मीनः पिङ्गला कुररोऽर्थकः ।
कुमारी शारकृत् सर्प उर्णनाभः सुपेकशकृत ।।
एतेभ्यः गुरुभ्यः के के गुणाः शिक्षितव्याः इति विशदयति कृष्णः । अनन्तरं भक्तियेगं तदङ्गभूतान् कर्मज्ञानादींश्च परिचाययति । जीवात्मपरमात्मस्वरूपं प्रपत्तियोगः सत्त्वादिगुणानामुपरि जयः इत्यादीन् उपदिश्य पुरुषार्थेषु मोक्षस्य प्राधान्यं स्पष्टीकरोति । तत् प्राप्तुं ध्यानयोगः आश्चयणीयः । भगवद्गीतायामिव अत्रापि भगवद्विभूतीनां वर्णनं दृश्यते । वर्णाश्रमादयः आत्मभरन्यासः देशकालादीनां शुद्धाशुद्धत्वं इत्यादीन् अधिकृत्य वदन् मनः एव मुक्तिहेतुरिति स्पष्टीकरोति सः ।

५. हंसगीता – उद्धवगीतन्तर्गता इयं गीता भागवतपुराणस्य एकादशे स्कन्धे त्रयोदशेऽध्याये निबद्धा वर्तते । हिरण्यगर्भग्य मानसाः पुत्राः सनकादयः योगस्य ऐकान्तिकीं गतिं पितरं पप्रच्छुः । ब्रह्मा प्रश्चस्यास्य उत्तरं दातुम् अशक्तः सन् भगवन्तं वासुदेवं स्मृतवान् । भगवान् हंसरूपेण तत्र आगतः । सनकादयः विस्मिताः भूत्वा कस्त्वमिति अपृच्छन् । भगवान् तु स्वस्य सर्वव्यापकत्वं विशदयन् तान् सर्वान् ब्रह्मज्ञानम् उपादिशत् । पञ्चविंशत्या श्लोकैः निबन्दः अयम् उपदेशः द्वितीया हंसगीता इति ख्यातः । प्रथमायाः अफि अधिकप्रसिद्धा वर्तते इयम् ।

६. एकलगीता – एषापि उद्धवगीतान्तर्गता एकादशस्कन्धस्य षङ्विंशे अध्याये वर्तते । प्रवृत्तिधर्मादपि निवृत्तिधर्मस्य एव श्रेष्ठता अत्र प्रतिपादिताः तदर्थं पुरुरवसः इतिहासः अत्र वर्णितः । ऊर्वश्याम् अनुरक्तः पुरूरवाः मोहाकुलः सन् विषयसुखेषु निमग्नः आसीत् । कदाचित् तस्याः विरहेण सः बुद्धिवैकल्यं प्राप्तवान् । क्रमशः विषयसुखानाम् अनर्थहितुत्वं विज्ञाय पश्चात्तापेन दग्धमनाः सः देहाभिमानं त्यक्त्वा मुक्तः अभवत् ।

७. भिक्षगीता – एकादशस्कन्धस्य त्रयोविंशे अध्याये दृश्यके इयम् । अवन्तिदेशे कश्चित् ब्राह्मणः आसीत् । पुण्यक्षयात् तस्य सम्पत् नष्टा जाता । दुःखितः सः निर्वेदम उपेत्य भिक्षुः अभूत् । जनाः तं बह्वीभिः परिभूतिभिः पर्यतर्जयन्त । किन्तु सः ब्राह्मणः क्रोधं परित्यज्य ‘सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः’ इति मत्वा योगनिष्ठां प्राप ।

८. रुद्रगीता – प्राचेतसाः नाम ऋषयः तपस्तप्तुं प्रतीचीं दिशं प्रययुः । तत्र सुमहत्सरः किञ्चिदासीत् । तत्र साक्षात् रुद्रः तेभ्यः दर्शनं ददौ ।
इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् ।
निःश्रेयसकरं चापि श्रूयतां तद्वदामि वः ।।
इति रुद्रः वायुदेवस्य तत्त्वं तान् बोधयामास । भक्तिपूर्णा तत्त्वपूर्णां च अस्ति एषा गीता ।

९ भूमिगीता – भागवतमहापुराणस्य द्वादशे स्कन्धे निबद्धा इयं गीता । आत्मनः जये व्यग्रान् नृपान् दृष्ट्रा भूरियं हसति – ‘अहो,मां विजिगीषन्ति मृत्योः क्रीडनकाः नृपाः’ इति । पृथुमहाराजात् आरभ्य शतशः राजानः कथाशेषाः अकृतार्थाः अभवन् । परमात्मनि भक्तिरेका सिद्धिप्रदा ।
अन्यपुराणान्तर्गताः गीताः

१. देवीगीता – देवीभागवतमहापुराणस्य सप्तमे स्कन्धे अस्ति इयं गीता । तस्य स्कन्धस्य अन्तिमाः नव अध्यायाः ‘देवीगीता’ इति प्रसिद्धाः । हिमालयः देवीं पुत्रीरुपेण प्राप्य आत्मानं कृतकृत्यम् अमन्यत । सः देवीं स्तुत्वा – सर्ववेदान्तसिद्धं च त्वद्रुपं ब्रूहि मे यथा ।
योगं च भक्तिसहितं ज्ञानं च श्रुतिसंमतम् ।।
वदस्व परमेशानि त्वमेवाहं यतो भवेः ।।
इति प्रार्थयामास । सा देवी व्यष्टिसमष्टिरूपवर्णनं कृत्वा विराड्रूपदर्शनसहितम् आत्मतत्त्वं बोधयामास। ज्ञानस्य मोक्षहेतुत्वं च प्रत्यपादयत् । तदर्थं मन्त्रसिद्धिः साधनानि च आवश्यकानि । भक्तेः महिमा चापि तया स्मयक् निरूपितः अस्ति । देव्याः पूजाविधिः महोत्सवस्थानानि चापि अत्र वर्णतानि । भक्तिज्ञानयोः समावेशः अत्र दृश्यते ।

२. शिवगीता – पद्मपुराणान्तर्गता वर्तते इयं गीता । सीतादेव्याः विरहवेदनया दुःखितं रामम् अगस्त्यः महर्षिः सान्तयित्वा विरजादीक्षाम् उपदिशति । श्रीरामः तदनुसृत्य पाशुपतव्रतम् आचर्य वेदसारशिवस्तोत्रं भकत्वा जपति । तदा शिवः आविर्भूय तं शिवगीताम् उपदिशति । अस्यां गीतायां भक्तियोगः , वौराग्ययोगः, विरजादीक्षोपदेशः, विभूतिविस्तरयोगः , विश्वरूपं , वैराग्ययोगः, विरजादीक्षोपदेशः, विभूतिविस्तरयोगः विश्वरूपं , देहोत्पत्त्यादिनिरुपणम्, उपासनाविधिः मोक्षयोगः पञ्चकोशोपासनं, भक्तिः, मोक्षः इत्यादयः षोडश अध्यायाः सन्ति ।

३. गणेशगीता – गणेशपुराणे निबद्धा इयं कृतिः एकादशाध्याययुक्ता विराजये । ४१३ श्लोकाः अत्र सन्ति । राज्ञे वेण्याय गजाननः अत्र गीतोपदेशं करोति । सांख्यार्थसारः, कर्मयोगः, ज्ञानयोगः, संन्यासयोगः, योगवृत्तिप्रशंसा, बुद्धियोगः, उपासना, विश्वरुपदर्शनं, ज्ञातृज्ञेविवेकः इत्यादयः अत्र सम्यक् निरुपिताः ।

४. यमगीता – विष्णुपुराणे मैत्रेपराशरयोः संवादभागः ‘यमगीता’ इति विख्याता वर्तते । मैत्रेयः यमस्य बन्धनात् मुक्तो भवितुम् उपायस्य विषये पराशरं पृच्छति । पराशरः नकुलभीष्मयोः संवादम् उत्तररूपेण वदति । यमदुतः मृतान् आनेतुं भूमिं गतः । गमनसमये यमः – ‘विष्णुभक्ताः न आनेतव्याः’ इति तम् आदिदेश । दूतःतेषां लक्षणं यम पृच्छति । यमः भक्तानाम् अभक्तानां च लक्षणानि निरूपयति । अग्निपुराणे नरसिंहापुराणे चापि एतादृशी एव यमगीता निबद्धा इति श्रूयते ।

५. सूर्यगीता – गुरुज्ञानवासिष्ठस्य भागः इयं सूर्यगीता । पञ्चाध्याययुक्ता ३८६ श्लोकायुक्ता इयं गीता अरुणसूर्ययोः संवादरूपा वर्तते । शिवाद्वैतत्वं गीतायाम् अस्यां सम्यक् प्रतिपादितम् । ज्ञानकर्मोपासनानां निरन्तराभ्यासेन मुक्तिः तु करबदरायते । एते त्रयः अपि समानरुपतया प्रमुखाः सन्ति ।

६. रामगीता – अध्यात्मरामायणे निबद्धा इयं गीता रामेण लक्ष्मणाय उदिष्टा वर्तते । शङ्करभगत्पादानाम् अद्वैततत्त्वमेव अस्य सारः इव दृश्यते । वर्णाश्रमधर्माणां स्थानम्, अज्ञानस्य बन्धकारणं, नैष्कर्म्येण ज्ञानप्राप्तिद्वारा अज्ञानस्य निर्मूलनम् , गुरोः आवश्यकता, तत्त्वमसीति महावाक्यस्य अर्थः इत्यादयः अस्य विषयाः । गुरुज्ञानवासिष्ठेऽसि एषा रामगीता दृश्यते ।
स्वतन्त्रगीताकृतयः

१. अष्टावक्रगीता – अस्याः अष्टावक्रसंहिता इति नामान्तरं वर्तते । अनुष्टुप्छ्न्दसा रचिताः २९८ श्लोकाः अत्र सन्ति । ग्रन्थेऽस्मिन् विंशतिः अध्यायाः वर्तन्ते । आत्मज्ञानम् अत्रैव सम्पाद्यम् । तदर्थं साधनानाम् आवश्यकता वर्तते । सप्तदशे अध्याये ज्ञानिनां मनोज्ञं चित्रण दत्तं दृश्यते ।

ashtavakrgeeta

२. अवधूतगीता – अवधूतो नाम पारिव्राजको यतिः । दत्तात्रेयो मुनिरेव अत्र अवधूतनाम्ना सम्बोधितः । अतः इयं ‘दत्तगीता’ इत्यपि प्रसिद्धा वर्तते । अद्वैततत्त्वस्य उपदेशः एव अस्याः गीतायाः सारः । प्रथमे अध्याये ८६ श्लोकैः ब्रह्मस्वरूपं विवृतम् । द्वितीये अध्याये ४० श्लोकाः वर्तन्ते । बहवः बह्मस्वरूपं विवृतम् । द्वितीयै अध्याये ४० श्लोकाः वर्तन्तेः बहवः श्लोकाः वसन्ततिलकावृत्तेन रचिताः गानयोग्याः मननयोग्याः च सन्ति । अद्वैततत्त्वानां परिचयः अत्र कारितः । तृतीयाध्यायः अपि मननयोग्यः एव । अत्र ४ ६ श्लोकाः निबद्धाः । चतुर्थः अध्यायः ‘श्रीदत्त उवाच’ इति आनुपूर्व्या आरभ्यते । पञ्चविंशत्या श्लोकैः स्थितप्रस्य लक्षणानि अत्र निरूपितानि । पञ्चमोऽध्यायः उपजातिवृत्तेन निबद्धः । अत्रापि दत्तगुरोः वाक्यानि एव दृश्यन्ते । ३१ श्लोकाः अत्र सन्ति । षष्ठे अध्याये २७ श्लोकाः सन्ति । सप्तमः भजगोविन्दगीतासाम्यं वहति । अन्ते फलश्रुतिवाक्यम् एवम् – ‘दत्तात्रेयावधूतेन निर्मितानन्दरूपिणा । ते पठन्ति च श्रृण्वन्ति तेषां नैव पुनर्भवः ।।’

३. प्रपन्नगात – प्रपत्तिप्रधाना इयं गीता भगवतं परिचाययति । ८० श्लोकयुक्ता इयं भक्तिप्रधाना वर्तते । विष्णोः सर्वेत्तमता अत्र प्रतिपादिता ।
एवम त्रिंशतः गीतानां परिचयः मया अत्र उपस्थापितः । भारतीय सनातनधर्मस्य द्योतिकाः सन्ति एताः महाकृतयः । एतासु महत्वं क्कचित् आकारेण न स्यात्, वस्तुदृष्टया तु स्यात् एव !

सौजन्यं स्रोतश्च——सम्भाषण- सन्देशः

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​