परिचयः
साहित्यं सभ्यतायाः भाषाः प्रमुखं तत्त्वम् अस्ति। काचित् सभ्यता कीदृशी अस्ति अथवा आसीत् एतस्य ज्ञानं तस्याः सभ्यतायाः जनैः लिखितेन साहित्येन यथा ज्ञातुं शक्यं तथैव का भाषा कीदृशी अस्ति तस्याः भावाभिव्यक्तेः कियान् सामर्थ्यम् इति एतत् सर्वं तस्याः भाषायाः साहित्यं दृष्ट्वा सहजतया विना आयासं ज्ञानं भवति एव। केचन संस्कृतसाहित्यस्य पठनेच्छुकानां चिन्तनं कदाचित् स्यात् यत् संस्कृते पुरातनसाहित्यम् एव अस्ति। तत्र कादम्बरी महाश्वेता मालविका शकुन्तला एव लप्स्यते अथवा चन्द्रपीडः पुण्डरीकः मित्रं दुष्यन्तः वा वर्णितः स्यात्। परन्तु एतत् सर्वं वास्तविकं नास्ति संस्कृते अपि साहित्यनदी अजस्रं प्रवाहमाना वर्तते। परन्तु प्रचारस्य माध्यमानानाम् अभावे सरस्वती नदी इव गुप्तरूपेण प्रवहति। अस्मिन् पुटके अस्माकं यत्नः भविष्यति यत् तस्याः साहित्यसरस्वत्याः प्रवाहः भवतां गृहं प्राप्नुयात्।