मुखस्थे रन्ध्रे शलाकाचिकित्सा मुखस्थे रन्ध्रे शलाकाचिकित्सा गोसन्ततिः (धेनुः, वृषभः, महिषी, महिषः इत्यादयः ) केन वा न ज्ञायेत् ? क्षीरीदिकं विना असमाकं दैनन्दिनं जीवनमेव न प्रचलेत् । पञ्चामृत-पञ्चगव्यादिकं विना धार्मिकविधयः न प्रवर्तेन् । गोसन्ततिं विना कृषिः कष्टसाध्या । एवम् अस्माकं जीवनस्य गोसन्ततेः च दृढतरः कश्चन सन्बन्धः । गोजातीयानां मुखस्य अन्तः ऊर्ध्वभागे (यत्र ताल्वादीनि स्थानानि भवेयुः तत्र) सुक्ष्मं रन्ध्रद्वयं भवति इत्येतत् किं ज्ञायते भवद्धिः ? नासारन्ध्रविषयः न उच्यते अत्र । नासारन्ध्रद्वयं तु सर्वैः विदतमेव । तत् मुखात् बहिः भवति । अत्र उच्चमानं रन्ध्रद्वयं तु मुखस्य अन्तर्भागे भवति, अतिसूक्ष्मं च भवति । रन्ध्रे अशुष्का नारिकेलशलाका यदि प्रवेश्येत तर्हि सार्धद्विपाददैर्घ्यं यावत्, प्रायः मस्तिष्कर्यन्तम् अपि प्रवेशयितुं शक्या । गोसन्ततेः मुखस्थे रन्ध्रे अशुष्कनारिकेलशलाकायाः प्रवेशस्य आवश्यकता का इति पृच्छेयुः भवन्तः । सा च क्रिया क्रियते चिकित्साङ्गतया । गोसन्ततेः पुरोभागस्य कश्चन पादः यदा भुजात् पृथग्भवेत् तदा सन्धौ अस्थिसंयोजनाय एषा चिकित्सा क्रियते इति श्रूयते । एषा अस्ति ग्राम्यचिकित्सा । आधुनिके पशुचिकित्साग्रन्थे क्कापि अस्याः उल्लेखः न कृतः एव । प्राचीने आयुर्वेदशास्त्रे अपि क्कापि एतादृश्याः चिकित्सायाः उल्लेखः स्याद्वा न वा इति तु च ज्ञायते । न कस्याञ्चिदपि संशोधनपत्रिकायामपि एतस्याः चिकित्सायाः उल्लेखः दृश्यते । ‘विजयवाणी’ नामिकायां कन्नडदिनपत्रिकायां स्तम्भलेखकः मान्यः महालिङ्गवर्यः एतम् अशं कस्मिश्चित् लेखे सचित्रं विवृणोति । ततः एव अयम् अंशः उद्धृतः । महालिङ्गवर्यः एतस्याः चिकित्सायाः मूलविषये लिखत- ‘’मम सुहृत् कश्चन पशुवैद्यः एतां चिकित्सां करोति । ‘कुन्दापुर’- नगरपरिसरे ‘रट्टाडि’नामके ग्रामे स्थितात् डा. दिनकरशेट्टिनामकात् पशुवैद्यात् तेन एषः चिकित्साक्रमः ज्ञातः अनुस्त्रियमाणश्च वर्तते । दिनकरशेट्टिवर्यः एतं चिकित्साक्रमम् ‘अमासेबैलु’ ग्रामे निवसतः लक्ष्मीनारायणभागवतात् अजानाम् । ल. ना. भागवतः च वृद्धात् अग्रजात् रामकृष्णभागवतात् एतत् अजागत् । रामकृष्णभागवतस्य पुत्रौ श्याम-स्कन्दगोपालौ पितृव्यात् एतां चिकित्सां ज्ञात्वा अद्यापि अनुवर्तयतः । सर्वमूलभूतः रामकृष्णभागवतवर्यः कुतः एतां विद्यां ज्ञातवान् इति विवरणं न उपलभ्यते” इति । ग्राम्यचिकित्सा पारम्परिकी भवति प्रायः । अतः रामकृष्णभागवतवर्यः पितुः पितामहस्य वा (अन्यस्य गुरोः वा ) सकाशात् तां ज्ञातवान् स्यात् इति तर्कणीयम् अस्माभिः । सन्धौ अस्थ्नोः वियोगः मानवानामिव पशूनामपि भवति एव । तादृशे प्रसङ्गे पशवः खञ्जन्ति । पशुषु अस्थ्नोः मध्ये चत् अन्तरं समुद्भवेत् तत् अङ्गुलिमानेन निर्दिश्यते ग्रामकोविदैः । द्वयङ्गुलं, त्र्यङ्गुलं, चतुरङ्गुलं वा अन्तरं दृश्यते इति वदन्ति ते अङ्गुल्या परिमाय । यदि एतत् अन्तरम् अधिकं भवेत् तर्हि सः पशुः चलने अपि कष्टम् अनुभवेत् । एवं पादसन्धौ अस्थियोगपीडां यः पशुः अनुभवेत् तस्य चिकित्सार्थम् एषा ‘शलाकाचिकित्सा’ अनुस्त्रियते । अस्थिवियोगानन्तरं दिनाभ्यन्तरे एषा चिकित्सा क्रियेत चेत् परिणामः अपि दिनाभ्यन्तरे एव दृश्येत । सप्ताहाभ्यन्तरे चिकित्सा क्रियेत चेत् परिणामदर्शनाय सप्ताहः एव आवश्यकः स्यात् । यदि वामभागस्थे पादसन्धौ अस्थिवियोगपीडा स्यात् तर्हि दक्षिणरन्ध्रे शलाका प्रवेश्यते । दक्षिणभागे सा पीडा चेत् वामरन्ध्रे शलाका प्रवेश्यते । शरीरस्य मस्तिष्कस्य वामार्धं दक्षिणभागः, दक्षिणर्धं मस्तिष्कस्य वामभागः च नियन्त्रयतः इत्यतः एवं क्रियेत किम् इति तु न स्पष्टम् । सजीवस्य पशोः मुखस्थे लघुरन्ध्रे शलाकाप्रवेशनं न सामान्यं कार्यम् । विशेषपरिणतिः, कौशलं, पशुविषये प्रीतिः इत्यादिभिः युक्तः समर्थः वैद्यः एव एतादृशं कार्यं कुर्तुम् अर्हति । सामान्याः तु पशोः मुखस्य विकासस्य सम्पादने, दृढतया ग्रहणे, एतादृशेषु अन्येषु कार्येषु च साहाय्य कर्तुम् अर्हन्ति । अशुष्कनारिकेलशलाकायाः प्रवेशात् पशोः न कोऽपि अपायः , न कापि पीडा वा । शलाका प्रवेशानन्तरं कस्मिश्चित् दिने पशुः क्षौति निरन्तरम् । एतदवसरे सन्धिपीडायुक्तं पादमपि उन्नीय अप्रयत्नेन चालयति सः । तदैव सन्धिस्थं पादस्थि यथास्थानं निवेशितं भवति । तदनन्तरं तस्य पशोः सञ्चता समाप्ता भवति । शलाकाप्रवेशनं क्षुतस्य उत्पादनमात्रे परिणमति, उत मस्तिष्कभागे मर्मणि विशेषप्रचोदनं किमपि करोति इत्यादिकं तु न ज्ञायते । रन्ध्रे प्रवेशिता नारिकेलशलाका पशुशरीरे तथैव तिष्ठति । सा न अपनीयते । तथापि पशोः तु न कापि हानिः इति वदति वैद्यः । सर्वमेतत् विवृत्य महालिङ्गवर्यः लिखति – “मया मम सुहृत् पशुवैद्यः पृष्टः – ‘ग्राम्यचिकित्साङ्गवतः अयं क्रमः अधीतविज्ञानैः भवद्धिः शास्त्रीग्रन्थस्य प्रामाणयस्य अभावे अपि कथम् अङ्गी क्रियते ?’ इति । यदा तेन वैद्येन उक्तम् – “फ्रिम्बियेनामकम् एतत् रन्ध्रं पशुशरीरे किमर्थं भवति इति पशुवैद्यलोकः अपि न जानति । पादसन्धौ अस्थ्नोः मध्ये अन्तरं यदा दृश्यते तदा तु वयं प्रायः वेदनाहरम् औषधं दद्मः । पशुः तु एतया अस्मच्चिकित्सया वेदनानुभवं न प्राप्नुयात् चेदपि आजीवनं खञ्चेत् एव । सामान्यतां कृषिकाणां पशूनां विषये अन्यः चिकित्सापरिहारः नास्ति अस्मत्समीपे । एषा विशिष्टा शलाकाचिकित्सा तु पशोः खञ्जतां निवार्य तं स्वस्थं करोति, तत्स्वामिनं च निश्चिन्तं करोति । एवं स्थिते एषः चिकित्साक्रमः कुतो वा न आद्रियेत ?’ इति ।“ चिकित्साक्षेत्रे वस्तुतः ग्राम्यनगरभेदः गौणः स्यात् । चिकित्सार्थी यतः लाभं प्राप्नुयात् सः क्रमः अवश्यमेव आदर्तव्यः । अन्यथा ‘शलाकाचिकित्सादयः’ अपूर्वाः अपि ग्राम्यचिकित्साक्रमाः विलयं गच्छेतुः । ततः हानिः तु चिकित्साक्षेत्रस्य एव ननु ? अतः आधुनिकाः पशुवैद्याः अपि डा. दिनरशेट्टिः इव एतस्मिन् क्रमे आस्थां प्रदर्श्य एतदुपयोगेन चिकित्सां कुर्युः । तदा एव लोकस्य हितं सिद्धयेत् । मूकजीविनः वक्तुं सामर्थ्ये असत्यपि आधमर्ण्यं तु अवश्य वहेयुः । सौजन्यं स्रोतश्च——सम्भाषण- सन्देशः