शिशुपाठ्यक्रमः
मानवः जन्मनः अनन्तरम् इह लोकत्यागपर्यन्तं विभिन्नैः माध्यमैः विभिन्नानि शिक्षणानि प्राप्नोति। मानवजीवनस्य शिशुः, किशोरः, युवा, प्रौढा इत्यादयः एताः अवस्थाः भवन्ति। प्रत्येकम् अपि अवस्थायां मानवमस्तिष्कस्य विशिष्टानि सामर्थ्यानि भवन्ति। तेषां सामर्य्थानां विश्लेषणं कृत्वा एव शिक्षाविदः प्रत्येकम् अपि अवस्थायाः छात्राणां कृते पाठनीयाः विषयाः के भवेयुः? पाठ्यानां विषयाणां च पाठनक्रमः कः भवेत् इति निर्धारणं कुर्वन्ति। षड्वर्षवयस्कारभ्य दशवर्षवयस्काः बालकाः बालिकाः च शिशवः इति शिक्षाविदः कथयन्ति। अस्याम् अवस्थायां मानवस्य मस्तिष्कस्य रटनस्य सामर्थ्यम् अधिकं भवति। जिज्ञासावृतिः आधिक्यकारणेन अधिकाधिकं ज्ञातुं मनोवृतिः अपि भवति। तेषां कृते शिक्षाविदः यान् विषयान् येन क्रमानुसारेण निर्धारितवन्तः तत् सर्वं शिशुपाठ्यक्रमः इति उच्यते।