परिचय
प्रतियोगितायाः अस्मिन् युगे सूचनानां प्रधान्यम् अस्ति। आधुनिके अस्मिन् युगे यस्य समीपे यथा अधिकाः सूचनाः सन्ति सः तथा लाभान् स्वीकर्तुं शक्नोति । समयस्य सदुपयोगं कर्तुं शक्नोति स्वस्य लक्ष्यं च प्राप्तुं शक्नोति। अन्तर्जालस्य प्रयोक्तृणां सर्वेषां सङ्घटनानां प्रयासः अस्ति यत् संस्कृतविश्वम् इति जालपत्रं स्वनाम्नः सार्थकतां सम्पादयन् न केवलं भारतस्य अपि तु सम्पूर्णे अपि विश्वे काचित् अपि संस्कृतक्षेत्रे कार्यं कुर्वती संस्था स्यात् अथवा सङ्घटनं, तेषां सर्वेषाम् अपि विषये अत्र सूचनाः स्थापयितुं शक्नुयाम । एतस्मिन् पुटके संस्कृतसंस्थाः सङ्घटनानि च भवतां चतुर्षु अत्र भागेषु विभज्य समुस्थापयिष्यन्ते।
एवं विश्वे संस्कृतपाठनस्य व्यवस्थां कुर्वत्यः सहस्रशः संस्थाः स्युः। संस्कृतभाषायाः उत्कर्षम् इष्यमाणानाम् इयं जिज्ञासा स्यात् यत् एतासां संस्थानां स्थितिः का इति। एतस्याः शान्त्यर्थं संस्कृतविश्वे एतासां संस्थानां स्थितिः ज्ञातुं यथा शक्यं भवेत् तन्निमित्तं यतामहे।