अद्वैतसिद्धान्तस्य उपज्ञातुः जगद्गुरुः आदिशङ्कराचार्यस्य नामधेये तस्य जन्मस्थाने कालट्यां चतुर्नवत्युत्तर-एकोनविंशतितमे शतके स्थपितेयं श्रीशङ्कराचार्यसंस्कृतसर्वकलाशाला। संस्कृतस्य विविधासु शाखासु विद्याप्रदानेन साकं भारतीयसंस्कारस्य भाषातत्वशास्त्राणाञ्च प्रोत्साहनं सर्वकलाशालायाः लक्ष्याणि। संस्कृतहस्तलिखिततालपत्रग्रन्थानाञ्च सङ्ग्रहः, पुस्तकानां मुद्रणञ्च प्रधानलक्ष्याणि।
बहुमान्यः केरलराज्यस्य राज्यपालः अस्याः संस्कृतसर्वकलाशालायाः कुलपतिर्भवति। एवं बहुमान्यः केरलसर्वकारविद्यामन्त्री उपकुलपतिश्च भवति। मेधाविनः उपकुलपतेः उपरि निरीक्षणे शिष्टपरिशिषदः नियन्त्रणे च सर्वकलाशालायाः प्रवर्तनं भवति। कालट्यां मुख्यकेन्द्रं तथा राज्यस्य भिन्नभिन्नमण्डलेषु अष्टप्रादेशिककेन्द्राणि च चलन्ति। तानि च – तिरुवनन्तपुरं, पन्मना, तुरवूर्, एट्टुमानूर्, तृशूर्, तिरूर्, कोयिलाण्डी,पय्यन्नूर्। नवमुख्यविभागाः सर्वकलाशालायां विद्यते। तानि च संस्कृतसाहित्यं, संस्कृतव्याकरणं, भारतीयवेदान्तः, भारतीयन्यायशास्त्रम्, अन्यसंस्कृतविद्याविभागः, इन्टोलजि, भारतीयभाषाः, विदेशभाषाः, कला सामाजिकविज्ञानञ्च। त्रयोविंशति उपविभागाः अत्र सन्ति। ते च – संस्कृतसाहित्यं, संस्कृतव्याकरणं, संस्कृतवेदान्तः, संस्कृतन्यायः, आयुर्वेदः, वास्तुविद्या, सोष्यल् वर्क्, चरित्रं, मनश्शास्त्रम्, सोष्योळजि, भूमिशास्त्रं, तत्त्वशास्त्रम्, अरबिक्, आङ्गलम्, उरुदु, हिन्दी, मलयालं, सङगीतं, चित्रकला, तियट्टर्, फिसिक्कल् एजुकेषन्, एजुकेषन्। न केवलम् एतत् तारतम्यसाहित्यं, वैदिकपठनं, विवर्तनपठनं, हस्तलिखितशास्त्रं, सामान्यसंस्कृतं, इन्दिरागान्धि सेन्टर् फोर् जन्डर् स्टडीस्, इति षट् पठनकेन्द्राणि अपि संस्कृतसर्वकलाशालायां सन्ति। तारतम्यसाहित्यं, सामान्यसंस्कृतपठनम् एतान् विभागरुपेण वर्धयितुं श्रमाः चलन्ति।
संस्कृतं, सङ्गीतं, नृत्तं, चित्रकला – एतेषु चतुर्षु बिरुदविषयेषु सर्वकलाशालायाः बिरुदप्रदानम्। संस्कृतसाहित्यं, संस्कृतव्याकरणं, संस्कृतवेदान्तः, संस्कृतन्यायः, सामान्यसंस्कृतपठनं, हिन्दी, चरित्रं, मलयालं, तत्त्वशास्त्रम्, उरुदु, सङगीतं, तियट्टर्, आङ्गलं, तारतम्यसाहित्यं, नृत्तं, वैदिकपठनं, अरबिक्, मनश्शास्त्रम्, सोष्यल् वर्क्, जन्डर् इक्कोलजि अन्ट् दलिद् स्टडीस्, केरला रेस्पोण्सिबिल् आयुर्वेदिक् टूरिसं एजुकेषणल् रिसोष्सस् (क्रेट्टर्), फिसिक्कल् एजुकेषन् – एतेषु द्वाविंशतिविषयेषु बिरुदानन्तरबिरुदानि प्रदीयन्ते। एकविंशति विज्ञानशाखासु इन्टग्रेटड् एम्.फिल् – पि.एच्.डी, साक्षात् पि.एच्.डी च अस्ति। संस्कृतसाहित्यं, संस्कृतव्याकरणं, संस्कृतवेदान्तः, संस्कृतन्यायः, सामान्यसंस्कृतं, हिन्दी, चरित्रं, मलयालम्, आङ्गलम्, वास्तुविद्या, हस्तलिखितशास्त्रं, विवर्त्तनपठनं, उरुदु, सङ्गीतं, तत्त्वशास्त्रं, सोष्योळजि, भूमिशास्त्रं, तारतम्यसाहित्यं, मनश्शास्त्रं, जन्डर् स्टडीस् प्रभृतयस्ते। न केवलमेतत् पञ्चसु विज्ञानशाखासु साक्षात् पि.एच्.डी अप्यस्ति।
जालपत्र