सुश्रुतस्य यन्त्रकर्मशस्त्रकर्माणि सुश्रुतस्य यन्त्रकर्मशस्त्रकर्माणि लेखक – डा० के. एच्. कृष्णमूर्तिः चिकित्साविज्ञाने द्वौ विभागौ – भेषजचिकित्सा शस्त्रचिकित्सा च इति । आयुर्वेदे तयोः द्वौ सम्प्रदायौ व्यवहारे स्तः । आत्रेय- कायचिकित्सा धान्वन्तरीयशस्त्रचिकित्सा च इति । चरकसंहिता सुश्रुत संहिता च एतद्विषयकौ प्रख्यातौ आर्षग्रन्थौ । एतयोः द्वयोः अपि कर्तारौ संहिताकारी, न तु शास्त्रकारौ च कश्चन अस्माभिः स्मर्तव्यम् । संहितायाः शास्त्रस्य च क्श्चन भेदः अस्ति । तत्काले व्यवहारे स्थितस्य ज्ञानरोशेः कतिपयविषयाणां कमपि समुदायम् अनुसृत्य कृतं सङ्कलनं संहिता । कस्मिन्नपि विषये विध्यात्मकया प्रणीतं किश्चित् शास्त्रम् । तत्काले प्रवृत्तस्य ज्ञानरोशेः अनेन व्याख्यानेन एतत् उक्तं भवति यत् संहिता तत्काले प्रवृत्तस्य ज्ञानराशेः सूचिकामात्रमेव, न तु सा सर्वप्रदर्शिका इति । चरकः अपि स्पष्टं लिखति यत् तत्कालेऽपि अनेके शास्त्रग्रन्थाः बहूनां ग्रन्थानाम् उल्लेखः दृश्यते । एकस्यय मूलग्रन्थस्य विषये अनेकेषां व्याख्यानानां विरचनम् अस्मदीयविदुषां प्रधान कर्म आसीत् । आधुनिकास्तु तादृशं कर्म नीरसं, स्वतन्त्ररचनादृष्टटया गौणाम् इति वा परिगणयन्ति । परन्तु ऋषीणां व्याख्यानवैभवं ये सम्यक् दृष्टवन्तः भवन्ति, ते तु एतत् कार्यं ज्ञानरोशेः सुस्थापने, कालानुरीत्या तस्य अभिवर्धने च नितान्तम् उपकरोति इति जानन्ति । वाल्मीकीये रामायणे सुश्रुतस्य उल्लेखः अस्ति । सः विश्वामित्रस्य पुत्रः आसीत् । मृतसञ्जीविनी, सन्धानकरणी, विशल्यकरणी, सुवर्णकरणी इत्यादिनां, तत्सम्प्रदाये शल्यकर्माणि उपयुज्यमानानां सस्यानां चापि उल्लेखः तत्र अस्ति । सुश्रुतः ६००० संवत्सरेभ्यः पूर्वम् आसीत् इति वक्तुं शक्यते । सुश्रुतसंहिता कीदृशी रचना । अष्टाङ्ग-आयुर्वेदस्य शल्पकर्मंप्रधानः एषः ग्रन्थः । किं नाम शल्यम् ? शलति – शल्यवत् तुदति इति शल्यम् । तस्य निरसनं शल्यकर्म । तत्र यन्त्र-शस्त्र-अग्नि-प्रणिधानानि इति चत्वारि विधानानि सन्ति . (Application of mechanical devices, cutting instruments, corrosive or caustic surgery, chemeicals and fireic canterisation ) -सु.सू-२ .२८ तत्र यन्त्रकर्म-शस्त्रकर्मणोः विषये केवलम् अत्र केचन विषयाः निरूप्यन्ते । प्रधानतया सुश्रुतेन प्रयुक्तैः कैश्रित् शब्दैः, तत्र तत्र डल्हणव्याख्यायां प्रयुक्तैः शब्दैश्च मूलग्रन्थस्य सूत्रपद्धतिं, व्याख्यानस्य विशदीकरणं च प्रदर्शयितुं शक्यम । तदेव अत्र क्रियते । शस्त्रज्ञस्य लक्षणानि विवृणोति सुश्रुतः इत्थम् – शौर्यम् आशुक्रिया शस्त्रतैक्ष्ण्यम् अस्वेदवेपथु । असंमोहश्च वैद्यस्य शास्त्रकर्मणि शस्यते ।। (सु.सू. – ५. १०) अत्र डल्हणस्य व्याख्या एवम् अस्ति- “शौर्य निर्भयत्वं, भयभीते हि साध्यमपि व्रणमवगाढमूलं नारभते, आरब्धं वा अवशेषयति । आशुक्रिया लघुहस्तता शीघ्रं शस्त्रकर्मकरणम् । आशुक्रियया आतुरस्य चिरं क्लमो न भवति । शस्त्रतैक्ष्णं सुनिशितत्वं सधारत्वं च । तेन रुजा न भवति । असंमोहः असंमोहः असंमूढता । सः च आम- पक्क-व्रण-परिज्ञाने तथा प्राप्तानुष्ठाने च । ‘व्रणच्छेदादिषु रक्तादिदर्शने असंमोहः’इत्यन्ये ।“ ‘आधुनिकग्रन्थेषु विषयप्रतिपादनं सुनिश्चितं सुस्पष्टं च भवति । परन्तु भारतीयेषु आर्षविज्ञानग्रन्थेषु विषयप्रतिपादनम् अतीव साधारणरीत्या कृतं भवति, तत्र विषयाणां वैविध्यस्य आधिक्यात् किमपि स्पष्टं न भवति । तत्र चित्राणि अपि न भवन्ति’- इति आधुनिकाः कुर्वन्ति । तत्र कारणम् अपि अस्ति । आर्षग्रन्थानां रचना तु सुत्ररूपा भवति । सूत्रं तु- सूचनात् सूत्रणाच्चैव सन्धानात् अर्थसन्ततेः । सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः ।। इति स्मर्तव्यम् । तत् गणितवत् संक्षिप्तं भवति अतः तस्य अवगमनार्थं व्याख्यानस्य आवश्यकता भवति । चित्राणाम् अभावस्य कारणं तु तत्काले स्थिता लेखनसामग्रीणां परिमितिः एव इति पुनः वक्तव्यं नास्ति । एतया पृष्ठभूमिकया यदि अवलोक्यते तर्हि सुश्रुतग्रन्थः आधुनिकैः वैज्ञानिकैः अपि श्लाघनीयः भवति । एतस्मिन् लेखे तु मूलकल्पनाम् अनुसृत्य एव बहूनि चित्राणि रचितानि सन्ति । अनेन विधानेन समग्रा चित्ररचना कर्तुं शक्या इति दर्शयितुं सः प्रयत्नः कृतः अस्ति । सुश्रुतोक्तानां शस्त्रकर्मणि उपयुक्तज्यमानानां यन्त्राणां संख्या शताधिका वैद्यस्य हस्तः एव प्रधानतमः “तद् ऋते यन्त्रणाम् अप्रवृत्तिरेव ।“ सर्वाणि अपि यन्त्रकर्माणि तदधीनानि च । तत्र “मनः शरीरबाधाकराणि यन्त्राणि। (सु.सु. ७-४) । तानि षट्प्रकारकाणि । तद्यथा- स्वस्तिकयन्त्राणि, संदंशयन्त्राणि, तालयन्त्राणि, नाडीयन्त्राणि, शलाकायन्त्राणि, उपयन्त्राणि चेति । (सु.सू. ७-५) तत्र चतुर्विंशतिः स्वस्तिकयन्त्राणि, द्वे सन्दंशे, द्वे तालयन्त्रे, विंशतिः नाडयः, अष्टाविंशतिः शलाकाः, पञ्चविंशतिः उपयन्त्राणि च सन्ति । तानि सर्वाणि प्रायः लोहनिर्मितानि तत्सदृशवस्तुनिर्मितानि वा । तत्र नानाप्रकाराणां मृगपक्षिणां मुखैः एतेषां यन्त्राणां मुखानि प्रायः सदृशानि भवन्ति । तत्सारूप्यात्, तन्निर्देशनाच्च केनापि चिकित्सकेन स्वयुकंत्या, स्वप्रतिभया च स्वोद्देशानुसारम् अन्ययन्त्राणाम् आविष्कारः अपि कतुं शक्यते । तानि यन्त्राणि कीदृशानि स्युः ? समाहितानि, श्लक्ष्णमुखानि, सुदृढानि, सुरूपाणि, सुग्राह्यनि च सुयुः । तत्र स्वस्तिकयन्त्राणि आष्टादशाङ्गुलप्रमाणानि भवेयुः तेषां मुखानि (चित्रम्-१) सिंह-व्याघ्र-वृक-तरक्षु-ऋक्ष-द्वीपि-मार्जार-श्रृगाल-मृग-एर्वारुक-काक-कङ्क-कुरर-चाप-भास-शशाघाति-उलूक-चिल्लि-श्येन-गृध्र-क्रौञ्च-भूङ्गराज-अञ्चलिकर्ण-अवभञ्चन-नन्दीमुखमुखानि, मसूराकृतिभिः कीलकैः अवबद्धानि, मूले अङ्कुशवत् आवृक्तवारङ्गाणि च भवन्ति । अस्थिलग्नस्य शल्यस्य उद्धरणार्थंम् एतानि उपयुज्यन्ते । एतन्निर्देशनमेव अनुसृत्य एतानि मुखस्य चित्राणि लिखितानि सन्ति । अस्माभिः एतत् अवश्यं स्मर्तव्यं यत् एतानि यन्त्राणि तदानीन्तनकाले शल्यकर्मणि उपयुक्तानि आसन् । तस्मात् अत्र अस्माभिः कल्पितं किमपि नास्ति । प्राप्तं विवरणम् अनुसृत्य अनेन लेखलेन प्रथमं मृगपक्षिणां मुखस्य चित्राणि लिखितानि । तदधोभागे तत्तस्य प्राणिनः हनुं लिखित्वा तदुपरि वारङ्गं मसूरकीलं च लिखितम् । तदेन सुश्रुतस्य विवरणं यथार्थरुपेण चित्रितं भवति । अत्र चिन्तनीयः अन्यः अपि अंशः अस्ति यत् उषरि येषां मृगपक्षिणां नामानि लिखितानि सन्ति तेषां सर्वेषाम् अभिज्ञानम् इदानीं न शक्यम् । यथा- एर्वारुकः, चिल्लिः इत्यादीनि । कानिचन नामानि तु अद्य पर्यायशब्दत्वेन व्यवह्रियन्ते । यथा – व्याघ्र-द्वीपिशब्दौ । सुश्रुतानुसारं तौ भिन्नौ प्राणिनौ एव । व्याघ्रः = Tiger द्वीपि = Spotted Leopard (मोनियर् विलियमस् ‘द्वीपिन्’ इत्यस्य अर्थं ‘व्याघ्रः’ इत्येव लिखति । परन्तु अग्रे लिखति यत् It may be a leopard because of having sport like a islands इति सः दोषः एव ।) अञ्चलिकर्णः कञ्चन उलूकप्रकारः, यस्य च अञ्चलिः इव बृहत् कर्णसदृशम् अङ्गं भवति । (horned owl) एवं सुश्रुतविवरणम् अतीव अर्थगर्भितम् अस्ति । एतेषु सर्वेषु अपि यन्त्रेषु प्रधानः अंशः इत्युक्ते तत्तप्राणिमुखानि यथा वस्तु गृह्णन्ति तथा एव दृढतया एतैः अपि शल्यज्ञः रुग्णस्य शरीरस्य अङ्गं ग्रहीतुं शक्नोति । तन्नाम तस्य ग्रहणसामर्थ्यम् अधिकं भवति । तेन एव शल्योद्धरणं सुकरं भवति । एतादृशं सुस्पष्ट कर्मसामर्थ्य अतिसूक्ष्मपरिशीलनेन साध्यं भवतीति अवश्यं अङ्गीकरणीयं भवति । प्रकृतं शस्त्राणां कानिचित् चित्राणि परिशीलयामः । एतानि सुश्रुतविवरणम् अनुसृत्य एव लिखितानि । (चित्रम्- ३) एतच्च शस्त्रं मातुः गर्भे एव मृतं शिशुं अतिशीघ्रतया बहिः आनेतुम् उपयुज्यमानं शस्त्रम् । अत्र अतिप्रकृष्टं धारायुतं शस्त्रं शल्यज्ञस्य दक्षिणहस्ते मध्यमाङ्गलेः उपरि सुदृढरूपेण संलग्नम् अस्ति । येन सः स्वाङुगुलिं मातृयोनिद्धारा गर्भे प्रवेश्य शिशुदेहम् अतिशीघ्रं छित्त्वा बहिः आनेतुं शक्नोति । अन्यथा मातुः एवं मरणं सम्भवेत् । ईदृशी दृढता कथं वा शक्या ? इति चेत् अङ्गुल्याः प्रथमपर्वणि वलयमेकं प्रकिष्ठाप्य श्रृङ्खलया वलयस्य शस्त्रस्य च सम्बन्धं कल्पयित्वा एवं कर्तुं शक्यते । (यथा चित्रे प्रदर्शितम् ) विंशतिविधानि शस्त्राणि सुश्रुतेन उक्तानि सन्ति । “तत्र मण्डलाग्रकरपत्रे स्यातां छेदने (Cutting) लेखने (Scarification) च । वृद्धिपत्र-नखशस्त्रमुद्रिका-उत्पलपत्रकार्धधाराणि छेदने, भेदने (Repturing) च सूचीकुशपत्राटीमुख-शरारिमुखान्तर्मुख-त्रिकूर्चकाणि विस्त्रावणे (draining) कुठारिकाव्रीहिमुखारावेतस-पत्रकाणि व्यधने (Boring penetrating and pricking), सूची, बडिशं, दन्तशङ्कुः च आहरणे (extaction), एषण्येषणे (probe for procedure) आनुलोभ्ये च सूच्यः सीखने इति अष्ठविधकर्मणि उपयोगः शस्त्रायां व्याख्यातः । एतेन प्रकारेण शल्यकर्मणः अनेके विषयाः सुश्रुतेन सूचिताः । तेषाम् आचरणविधिः (Application procedure), पायनक्रमः (tempering procedure) ग्रहणपद्धतिः, उपदेशनियमावलिः (teaching their practising), शस्त्रसम्पत् (excellence of cutting instruments), दोपाः इत्यादयः विषयाः अपि उक्ताः सन्ति । तेषां विस्तरः तद्ग्रन्थे द्रष्टव्यः । विशिष्टानि कतिपयशस्त्रप्रकर्माणि अपि सुश्रुतेन व्याख्यातानि । यथा क्षारकर्माणि (Surgery by caustics), अग्निकर्माणि (cauterization by heat), नेत्रप्रकर्माणि (Operation on the eyes), अश्मरीप्रकर्माणि (Operation for urinary calculus) इत्यादीनि । काश्चन शस्त्रचिकित्साः, याश्च पूर्वं सुश्रुतेन क्रियन्ते स्म- पुनर्नासाङ्गरचना – नासिकायाः स्वरूपस्य परिवर्तनम् । (प्लास्टिक् सर्जरी) अङ्गोस्थिविच्छेदनम् – अङ्गानाम् अस्थ्नां च शरीरात् अपसारणम् । गुल्मोन्मूलनम् – शरीरे जातानां रोगग्रन्थीनां निवारणम् । अन्त्रवृद्धिनिवारणम् (हर्नियाचिकित्सा) – केनचित् कारणेन स्वस्थानात् बहिः आगतस्य अङ्गस्य समीकरणम् । मूत्राशये उत्पन्नानाम् अश्मसदृशानां निवारणम्, गर्भाशयात् मृतगर्भस्य अपसारणम्, भगन्दरमूलव्याधि प्रभूतीनां चिकित्सा इत्यादयः । शल्यतन्त्रम् – कण्ठस्य अधस्यात् स्थितेषु भागेषु उत्सनानां व्रणादीनां चिकित्सा । शालाक्ययन्त्रम्- कण्ठात् ऊर्ध्व, तत्राम् कर्ण-नेत्र-नासिका-मुखादिषु अवयवेषु उत्पनानां रोगाणां चिकित्सा । सुक्षुतस्य अध्यतनख्यातिः तदीयनासप्रतिष्ठापन(nose repair) कार्यनिमित्तिका अस्ति । एतदर्थं तेन सुनम्यशस्त्रचिकित्सा (Plastic surgery) आविष्कृता आसीत् । अस्थिसदृशकठिनभागान् विहाय देहस्य अन्येषां मृदुलभागानां छेदनं शस्त्रेण कृत्वाः ततः उद्भत्य देहस्य अन्यस्मिन् स्थाने तेषां सुस्थापनमेव सुनम्यशस्त्रचिकित्सा कृत्वाः ततः उद्धृत्य देहस्य अन्यस्मिन् स्थाने तेषां सुस्थापनमेव सुनम्यशस्त्रचिकित्सा (Plastic surgery) इति उच्यते । उद्घृतः भागः नूतने स्थाने तदङ्गीभूय एव यथा तिष्ठेत् तथा स्थापनार्थं नितरां कौशलम् अपेक्षितं भवति । ‘सुनम्यशस्त्रचिकित्सायाः जननी भारतभूमिः’ इत्येतत् सर्वेः अपि अङ्गीक्रियते एव । पुरुषस्य विशालात् वितम्बप्रदेशात् चर्म उद्धृत्य तेन भग्नायाः नासिकायाः, छिन्नस्य कर्णस्य वा यथापूर्वं प्रतिष्ठापनं काचित् कला । तस्यां प्राचीनभारतीयाः अतीवः परिणताः आसन् । फलप्रदेशात् चर्म उद्धृत्य छिन्नाः नासिकायाः स्थाने तस्य प्रतिष्ठापनं तु ततोऽपि साधारणं प्रकर्म (operation) आसित् । एतत् प्रकर्म आधुनिकशस्त्रचिकित्सायाम् इदानीम् अपि उपयुज्यते ‘फालपटल-विधान’ नामधेयेन (forehead flap method) । भारते १७३७ तमे क्रिस्ताब्दे एव देशीयवैद्याः एतत् प्रकर्म कुर्वन्ति स्म । तरिस्मन् वर्षे (Gentleman’s Magazine) नामिकायाम् आंग्नपत्रिकायां तस्य चित्रमपि प्रकटितम् अभवत् (चित्रम्-4) तदनन्तरं युरोपदेशेषु तद्विषये महान् प्रचारः अपि जातः । सुनम्यशस्त्रचिकित्सामम्बन्धे सुश्रुतोक्ताः मूलश्लोकाः अत्र दत्ताः सन्ति । ते सुलभावगमयोग्याः इति कृत्वा पुनः तेषां विवरणं लिखितं नास्ति । विश्लेषितायास्त्वथ नासिकायाः वक्ष्यामि सन्धानविधिं यथावत् । नासाप्रमाणं पृथिवीरुहाणां पत्रं गृहीत्वा त्ववलम्ब तस्य ।। तेन प्रमारेण हि गण्डपार्श्वाद् उत्कृत्य बद्धं त्वथ नासिकाग्रम् । विलिख्य चाशु प्रतिसन्दधीत तत् साधुबन्धैर्भिषगप्रमत्तः ।। २८ ।। सुसंहितं सम्यगतो यथावत् नाडिद्वयेनाभिसमीक्ष्य बद्ध्वा । प्रोन्नम्य चैनामवचूर्णयेत्तु पतङ्गयष्टीमधुकाञ्जनैश्च ।। सञ्छाद्य सम्यक् पिचुना सितेन तैलेन सिञ्चेदकृत्तिलानाम् । घृतं च पाय्यः स नरः सुजीर्णे स्निग्धो विरेच्यः स यथोपदेशम् ।। ३० ।। रूढं च सन्धानमुपागतं स्यात् तदर्भशेषं तु पनर्निकृन्तेत् । हीनां पुनर्वर्धरितुं यतेत समां च कुर्यादतिवृद्धमांसाम् ।। ३१ ।।