परिचयः |
संसारस्य विरचित-साहित्ये एवं च प्राप्यसाहित्ये वेदाः , विशेषतः ऋग्वेदः सर्वेभ्यः प्राचीनतमः मन्यते । वेदाः ईश्वरीयज्ञानम् अस्ति , एते स्वयं प्रकटिताः सन्ति अथवा कस्याश्चित् व्यक्तेः रचना नाऽस्ति इति भारतीयानां गतम् । भारतीयानाम् एषापि मान्यता अस्ति यत्-प्राचीनानां ऋषीणां साधनायां तल्लीनतायाः क्षणेषु ऋचानां दर्शनम् अभवत् अर्थात् स्वतः अनुभूतिः अभवत् । काऽपि मान्यता भवेत् परन्तु ऋग्वेदः विश्वसाहित्ये आदिमः इति तु सवर्था सिद्धम् । “वेद ”इति शब्दस्य व्युत्पत्तिः विद्-धातोः भवति यस्य सामान्यःअर्थो भवति “ज्ञानम् ” अथवा उत्तमं ज्ञानं वा । वेदाः सर्वेषां ज्ञानानां निधिः अस्ति । वेदाः चत्वारः भवन्ति |