All posts by Sanskritvishvam

सि.वि. चन्द्रशेखराय केन्द्रसड्गीतनाटकअकादमी विशिष्टाङ्गत्वम्

सि.वि. चन्द्रशेखराय केन्द्रसड्गीतनाटकअकादमी विशिष्टाङ्गत्वम्

images नव देल्ही> प्रमुख: भरतनाट्यनर्तक: सि.वि. चन्द्रशेखर: केन्द्रसड्गीतनाटकअकादमी विशिष्टाङ्गत्वेन नियमितः। गतदिने   त्रिपुरायां सम्पन्न: योग: ‘अकादमी रत्‍ना ‘ इति नाम्ना प्रशस्तं विशिष्टाङ्गत्वस्थानं चन्द्रशेखरं समर्पयितुं निश्चयः स्वीकृतः। स्थानप्राप्तिदानं राष्ट्रपतिना करिष्यति।

जलसंरक्षणाय प्रचारणं करिष्यति – प्रधानमन्त्री

जलसंरक्षणाय प्रचारणं करिष्यति – प्रधानमन्त्री

saving_water__kapनवदिल्ली> राष्ट्रेण सम्मुखीक्रियमाणायाः अनावृष्ट्याः पश्चात्तले जलसंरक्षणाय विपुलं बोधवत्करणं शक्तिमन्तः प्रचारणकार्यक्रमाश्च आरप्स्यन्ते इति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। मन् कि बात् प्रभाषणपरम्परायां भाषमाणः आसीत् सः। अनावृष्टिं जलदौर्लभ्यं च परिहर्तुं सर्वकारैः क्रियासोपानानि स्वीकरिष्यन्ते। किन्तु जनैरपि स्वकीयानि कर्तव्यानि अपि पालनीयानीति प्रधानमन्त्रिणा उक्तम्। वृष्टिजलं सञ्चितव्यम्। गंगा यमुना नद्योः शुचीकरणं प्राधान्येन करणीयम्। जनानां भागभागित्वं तदर्थमावश्यकमिति तेनोक्तम्।

विकसनं ग्रामेभ्य: आरम्भणीयः

विकसनं ग्रामेभ्य: आरम्भणीयः

slider jराष्ट्राभिवृद्धये विकसनप्रवर्तनानि ग्रामेभ्यः आरम्भणीयानि इति मन्त्री किरण् रिज्जु:। तदर्थं राष्ट्रे पञ्चायत्तीराज् संविधानस्य विनियोगः शक्तः भवतु इति सः उक्तवान्। केन्द्रसर्वकारः ग्रामविकसनाय सर्वदा प्रतिज्ञाबद्ध: एव इति तेन अभिप्रेतम्। अतः केन्द्रपद्धतीनां फलप्रदरीत्या विनियोगाय सर्वेषां श्रद्धा आवश्यकी। गांन्धीमहोदय: ग्रामप्रदेशानां प्रतिनिधिः आसीत्। समूहे अध:कृतवर्गाणाम् उन्नमनाय अहोरात्रं प्रयत्न: कृतवान् आसीत् अम्बेदकर: इत्यपि तेन उक्तम्।

विजयप्रभायां सौरोर्जविमानम्।

विजयप्रभायां सौरोर्जविमानम्।

vimanhयुयोर्क> सम्पूर्णतया सौरोर्जेन चाल्यमानं विमानं ‘सोलार् इम्पलस् २’ पसाफिक् समुद्रस्य उपरिमार्गण यात्रामकरोत् । बेरट्रेन्ट् पिकाट् आसीत् विमानचालकः । चालकम् अभिवादनेन अभिवन्द्य ऐक्यराष्ट्रसभाध्यक्ष: बान् कि मुण् दाैत्यमेतत् प्रचोदनात्मकं तथा चरित्रपरं च इति अभिप्रेतम्।

स्व छायाग्रहणभ्रमः

flash n

स्व छायाग्रहणभ्रमः आपदि पतने

कोटैक्कनाल्> मधुरादेशीयः कार्तिक् नामक: युवकः कोटैक्कनाल् विनोदसञ्चारकेन्द्रस्य ‘डोल्फिन् नोस्’ नामकात् गिरेः सहस्रपादात्मकम् अगाधगर्तम् अपतत् । मित्रैः साकं मद्यम् पीत्वा एव युवक: आगतः इति आरक्षकैः सूचितम्। युवकानां मद्यपानासक्तिः तथा स्वछायाग्रहणभ्रम: च इदानीन्तनकाले आपदि पतने मुख्यम् कारणम् भवति इति अधिकृतैः उक्तम्।