All posts by Sanskritvishvam

गतिः भारतेन निर्णीयते

गतिः भारतेन निर्णीयते

ISRO-1-28416श्रीहरिक्कोट्टा> सप्तमम् उपग्रहमपि भ्रमणपथं नीत्वा गतिनिर्णयसंविधाने भारतस्य सोपानारोहणम् । अमेरिका, चीना, जपान्, रष्या इत्यादिभिः विकसितराष्ट्रैः सह उपग्रहगतिनिर्णयकार्ये भारतस्यापि स्थानं लब्धम् । भारतस्य सप्तमं गतिनिर्णयोपग्रहम् ऐ आर् एन् एस् एस् १ जि श्रीहरिक्कोट्टायाः सतीष्धवान् विक्षेपणकेन्द्रात् अद्य १२.५५ वादने पि एस् एल् वि सि ३३ आकाशबाणः विक्षेपणमकरोत्। एवं च भारतस्य सर्वे गतिनिर्णयोपग्रहाः भ्रमणपथं संप्राप्ताः। एतेषां उपग्रहाणां युगपत्प्रवर्तनेन भूतल -जल – वायु मार्गेण सञ्चाराय अन्येषां राष्ट्राणाम् आश्रयणं न आवश्यकम्।

आढ्यानां कूटधनानां रहस्यानि बहिरागतानि।

आढ्यानां कूटधनानां रहस्यानि बहिरागतानि।
पानमा सिटि> लोके धनिकाः अधिकारिणश्च आढ्याः कथं करमदत्वा अविहितधनसम्पादनं कुर्वन्ति , व्याजधनानि यथातथं कुर्वन्ति इत्यादीनाम् आघातात्मकाः प्रलेखाः बहिरागताः ।
लोके रहस्यतमस्वभावात्मकसंस्थासु अन्यतमायाः ” मोसाक् फोण्सेक् ” (एम् एफ् ) नामिकायाः संस्थायाः स्रंसिताः भवन्त्येते प्रलेखाः। पानामेति मध्यामेरिक्काराष्ट्रं भवति अस्य विधिसाहाय्यस्थापनस्य आस्थानम् ।
काचन जर्मन् पत्रिकया समाहृतान् १. १ कोटि प्रलेखान् ७६ राष्ट्राणां १०९ प्रसारमाध्यमानां समितिः शोधनं कृत्वा एव वार्तां बहिरानीतवती ।

जङ्गमदूरवाण्या: सहायेन लेखनं कृत्‍वा निर्मितानि पुस्तकानि अद्य मुक्ता: भविष्यन्ति।

Shri krishan 02
Shri krishan 02

wednesday, april 06, 2016

 

जङ्गमदूरवाण्या: सहायेन लेखनं कृत्‍वा निर्मितानि पुस्तकानि अद्य मुक्ता: भविष्यन्ति।

कोट्टयम् > भर्तृहरेः नीतिशतम् वैराग्यशतकम् श्रृङ्गारशतकम्‌ च  कैरल्याम् अनुवादं कृत्वा प्रकाशयन्ते । त्रयाणां ग्रन्थानाम् टङ्गणक्रिया (DTP) तथा पुटविन्यास: च (layout)  जङ्गमदूरवाणीमुपयुज्य आसीत्। अनेन मार्गेण प्रकाश्यमानः प्रथमः अनुवादग्रन्थः भवति इयं  सुभाषितग्रन्थावली।  ग्रन्थस्य लेखनादिकार्याणि  सम्प्रति वार्तया कृता। पुनर्वाचनाय  कागदलेशोऽपि नोपयुक्तः।  ग्रन्थकारः  मान्यवरः साधु. डा-डा. जेक्कब् कट्टय्कल् महोदयः अमेरिका राष्ट्रे उषित्वा सम्प्रति वार्तायाः  ओण्  लैन् सौकर्यमुपयुक्तवान्। अस्य महात्मनः 101, 102, 103-तमाः ग्रन्थाः भवन्ति। ग्रन्थानां मुद्रणम् कोट्टयं गुड् षेपेर्ट् मुद्रणालयेन कृत:।  अद्य मध्याह्ने द्विवादने  केरलेषु प्रसिद्धां भरणङ्ङानं  क्रैस्तवदेवालयस्य परिकर-प्रकोष्ठे (parish hall ) अभिवन्द्य बिषप् डा. जोसफ् कल्लरङ्ङाट् साधुवर्येण  प्रकाशयिष्यन्ते ।

सुधीन्द्रतीर्थस्वामिनः गंगातटे समाधिं प्रापुः। 

हरिद्वारः – गैडसारस्वतब्राह्मणसमुदायस्य आत्मीयाचार्यः तथा काशिमठाधिपतिः स्वामी सुधीन्द्रतीर्थः गंगाायां व्यासश्रमे समाधिं प्राप। मुम्बैयां आतुरालये चिकित्सितः सःस्वस्य देहवियोगः हरिद्वारे आश्रमे भवेदिति इच्छानुसारं शनिवासरे हरिद्वारम् आनीतवान् आसीत्।
रविवासरे प्रभाते १.३० वादने देहवियोग अभवत्।
  व्यासश्रमे व्यासमन्दिरस्य दक्षिणपार्श्वे स्वामिनः समाधिस्थानं सज्जीकृतम्। स्वामिशिष्यस्य उत्तराधिकारिणः संयमीन्द्रतीर्थस्य कार्मिकत्त्वे समाधिसमारोहः समारब्धः। काशिमठस्य गुरुपरम्परायाः समाधिविधिमनुसृत्य आसन् कार्यक्रमाः। सहस्रशः भक्ताः मन्त्रजपसहितं सन्निहिताः अभवन्।

गतिः भारतेन निर्णीयते

ISRO-1-28416
गतिः भारतेन निर्णीयते
श्रीहरिक्कोट्टा> सप्तमम् उपग्रहमपि भ्रमणपथं नीत्वा गतिनिर्णयसंविधाने भारतस्य सोपानारोहणम् । अमेरिका, चीना, जपान्, रष्या इत्यादिभिः विकसितराष्ट्रैः सह उपग्रहगतिनिर्णयकार्ये भारतस्यापि स्थानं लब्धम् । भारतस्य सप्तमं गतिनिर्णयोपग्रहम् ऐ आर् एन् एस् एस् १ जि श्रीहरिक्कोट्टायाः सतीष्धवान् विक्षेपणकेन्द्रात् अद्य १२.५५ वादने पि एस् एल् वि सि ३३ आकाशबाणः विक्षेपणमकरोत्। एवं च भारतस्य सर्वे गतिनिर्णयोपग्रहाः भ्रमणपथं संप्राप्ताः। एतेषां उपग्रहाणां युगपत्प्रवर्तनेन भूतल -जल – वायु मार्गेण सञ्चाराय अन्येषां राष्ट्राणाम् आश्रयणं न आवश्यकम्।