Category Archives: Uncategorized

तीव्रवादान् विरुध्य तीव्रवादिनेतु: कार् यानम् अग्निसात्करोत्।

तीव्रवादान् विरुध्य तीव्रवादिनेतु: कार् यानम् अग्निसात्करोत्।

2

गासियाबाद् – तीव्रवादान् विरुध्य  तीव्रवादि नेतु: दावूद् इब्राहिमस्य कार् यानम् अग्निसात्करोत्। हिन्दु महासभायाः प्रवर्तकाः गासियाबादस्य इन्दिरा पुरा देशे जनानां पुरतः कारयानम् अग्निसात् कृत्वा तेषां प्रतिषेधः ज्ञापितवन्तः। दावूदस्य डि नाम संस्थायाः भीषणिमगणयन् एव प्रतिषेधः कृतवन्तः।

 भारत-पाक् विदेशविभाग सचिवानां चर्चा

नवदिल्ली- भारत-पाक् विदेशविभागसचिवानां उपस्थितिः जानुवरीमासस्य 16 दिने भविष्यति। पाक्क् प्रधानमन्त्रिणः विदेशविभागस्य निदेशकेन सर्ताज् असीसेन निर्दिष्टा इयं चर्चा इस्लामबादे प्रचलिष्यते। विदेशकार्यमन्त्रिणी सुषमा स्वराज: पाक्क् प्रथानमन्त्रिणा सह सम्पन्ने मेलने एवायं निश्चयः जातः।

 बालनीतिविधेयकं राज्यसभया अङ्गीकृतम्।

नवदिल्ली – गुरुतरापराधान् क्रियमाणाः १६-१८ मध्ये वयस्काः कुमारकाः प्रौढा इव नैतिकविचारविधेयाः भवितुं सप्तसंवत्सरपर्यन्तं कारागृहवासं च व्यस्थापयितुम् उद्दिष्टं  बालनीतिभेदगतिविधेयकं राज्यसभया अपि अङ्गीकृतम्।पूर्वमेव लोकसभया अङ्गीकृतमिदं विधेयकं राष्ट्रपतेः हस्ताक्षरविन्यासेन नियमः भविष्यति।

नरेन्द्रमोदी मोस्को प्राप्तः।

3

मोस्को – दिनद्वयात्मकरष्यासन्दर्शनाय भारतप्रधानमन्त्री नरेन्द्रमोदी मोस्कोनगरं प्राप्तवान्। तत्र नुक्कावो-२ विमाननिलये  मोदिवर्यः रष्यासैन्यस्य ” गार्ड् आफ ओणर्” विन्यासेन स्वीकृतः।राष्ट्रपतिः व्लादिमिर् पुतिन् महोदयः रात्रिभोजनेन सह सत्कारं समर्पितवान्। अद्य द्वावपि राष्ट्रनेतारौ उभयपक्षचर्चां कृत्वा आणवोर्जः राष्ट्ररक्षा इन्धनम् इत्यादिषु मण्डलेषु अनुबद्धेषु हस्ताक्षरं करिष्यतः।ततः मोदीवर्यः रष्यस्थान् भारतवंशजान् अभिसंबुद्धिं करिष्यति।

बस् यानं विमाने घट्टितम्

 

बस् यानं विमाने घट्टितम् 

कोल्क्कत्त- कोल्क्कात्तायां व्योमयान निलये बस् यानं विमानेन सह घट्टितम्। जेट्ट् एयर् वेय्सस्य भवति बस् यानम्। एयर् इन्त्यायाः स्थगिते विमाने आसीत् घट्टनम्। तस्मिन् समये विमाने यात्रिकाः नासीत्। विमान गृहे सुरक्षायाः अभावः अस्ति इति अनया दुर्घटनया सूच्यते।

केजरिवालाय उच्च न्यायालयेन सुचना प्रेषिता।

नवदिल्ली – धनमन्त्रिणं अरुण् जैतट्लीं विरुद्ध्य व्याज अलीक आरोपणे दिल्ल्याः मुख्यमन्त्रिणे केजरिवालाय उच्च न्यायालयेन सुचना प्रेषिता। केजरिवालं विहाय पञ्च आम आदमी नेतृभ्यः सुचना प्रेषिता। वारत्रयाभ्यन्तरेण प्रत्युत्तरं दादव्यमस्ति। दिल्ली क्रिक्कट् संस्थादलान् सम्बन्ध्य व्याज अलीकारोपणे 10 कोटि रुप्यकाणां अभिमाननष्टस्य मूल्यमिति: जैट्लिना पञ्चीकृतः ।

समूह योग विदेशेऽपि

दुबाय् –  अबुदाबी नगरे योगत्तोण् इति नाम्नि समूह योगप्रदर्शनम् आयोजितम्। अबुदाबी मुशिरिश् पार्क्क् मध्ये 25राष्ट्रेभ्यः षट्शताधिका: जनाः योगाचरणाय मिलिताः। आर्ट ओफ़् लिविङ्ग् अबुदाबी केन्द्रेण आयोजितः इदं मेलनम् । राष्ट्रान्तर – परिशीलक: हसन् टफ़्ति: परिशीलनस्य नेतृस्थाने आसीत् । विद्यालयछात्राः अपि भागभाजः आसन् ।

 

शबरिगिरौ महान् भक्तजनसम्मर्दः -३२ आहताः।

शबरिगरिः – दक्षिणभारतस्य महातीर्थाटनकेन्द्रे शबरिगिरौ भक्तजनप्रवाहः वर्धते।गतदिने सन्निधाने सञ्जाते भक्तजनसम्मर्दे ३२ अय्यप्पाः आहताः। क्रिस्मस् कालीनविरामदिनानि , वातावरणानुकूलतया तमिळनाट् राज्यात् समागतभक्तजनबाहुल्यं च सम्मर्दकारणानि जातानि। अन्यथा शबरिगिरौ च वातावतरणं भक्तानुकूलं एव वर्तते।

विश्वविद्यालयेन दर्शितं जनोपकारकं विज्ञानं विरुध्य कीटनाशिनी निर्मातारः।

विश्वविद्यालयेन दर्शितं जनोपकारकं विज्ञानं विरुध्य  कीटनाशिनी निर्मातारः।

51

कोच्चि – विषलिप्तेभ्यः शाकाफ़लादिभ्य: रासकीटनाशिनीनां अंशान् क्षालयितुं केरल-कार्षिकविश्वविद्यालयेन निर्म्मितः जैवोत्पन्नः भवति वेजि वाष्। (VEGI VASH) विश्वविद्यालयेन सुस्थापितं  जनोपकारकं विज्ञानं विरुध्य कीटनाशिनी निर्मातृृणाम् ‘क्रोप् केयर्’ नाम सङ्घः  विश्वविद्यालयस्य उप-कुलपतये सूचनां प्रेषितवन्तः।
केरलेषु विपण्यां विक्रीयमानानि  शाकादीनि विशलिप्ताः तेन कारणेन जनाः अर्बुदादिभिः रोगैः बाधिताः च। निरोधिताः कीटनाशिन्यः अधुनापि तमिल् नाडु राज्यस्य विपणिषु सुलभाः। केरलेषु उपयुज्यमानेषु शाकासु प्रतिशतनवतिपर्यन्तं 90% अपि तमिल् नाडु देशात् आगच्छति

अमृतभाषा संस्कृतम्, (उद्घाटनं – पेरुवा गीतामन्दिर् मठाधिपतिः वेदानन्द सरस्वती) लिखित समाचार, 22/12/2015

अमृतभाषा संस्कृतम्

89

कोच्ची- संस्कृतम् अमृतभाषा भवति इति पेरुवा गीतामन्दिर् मठाधिपतिः वेदानन्द सरस्वती अवदत्।
तोडुपुष़ा कुमारमङ्गलम्  एम् .के .एन् एम्.एच् .एस् .एस् . मध्ये विश्वसंस्कृतप्रतिष्टानद्वारा आयोजित शिक्षक – प्रशिक्षण- शिबिरस्य उद्‌घाटनं कृत्वा भाषमाण आसीत् सः।
तपस्या अध्यक्षः प्रोफ़ पि जि हरिदासः अध्यक्ष आसीत्।
संस्कृतभारत्याः राज्याध्यक्षः एम् पि उण्णिकृष्णः भाषणं कृतवान्।
पि नारायणः मुख्यातिथिः आसीत् । केरलक्षेत्रसंरक्षणसमिति अध्यक्षः  स्वामी अय्यप्पदासः मुख्यभाषणं कृतवान्। कुमारमङ्गलम् पञ्चायत् अध्यक्षः निसार् पष़ेरी , एम् .के .एन् एम्.एच् .एस् .एस् . प्राचार्यः के . अनिलः, विश्वसंस्कृतप्रतिष्ठानस्य कार्यदर्शी वि श्रीकुमारः , पञ्चायत् अङ्ग: उषाराजशेखरः धनेष्कुमारः , एम् . जी .राजशेखरः इत्येते भाषणं कृतवन्तः । शिबिरं २७ दिनाङ्के समाप्तिमेष्यति।

रेल् यात्रा दुरितपूर्णा

नव दिल्ली–  केरलस्य स्वाभिमाने भवतः केरला मङ्गला इति नामके द्वे रेल् याने । केरलतः बहवः जनाः ताभ्यां यानाभ्यां यात्रां कुर्वन्तिI तत्र यात्रिकाणां कृते अवश्यसौकर्याणि अपि न सन्तिI दुष्टान्नं शुचित्वरहितः यानान्तर्भागः  क्षालनाय दुर्लभं जलम् उपयोगेन नाशोन्मुखा शय्या जङ्‌गमदूरवाण्याः कृते विद्युत्प्रदानाय विद्युत्स्थानस्य अभावः दौर्लभ्यता च शय्या श्रेण्यां अधुनापि वर्तन्ते। यथाकालं यात्राशुल्कं वर्धन्ते तथा केरलानां यात्राक्ळेशः अपि।

प्राचीनं रसायनशास्त्रम्

प्राचीनं रसायनशास्त्रम्

लेखकः- कू. वेङ्कटेशमूर्तिः
संस्कृतं ज्ञानस्य विज्ञानस्य च भाण्डागारम् । संस्कृतभाषया अस्पृष्टः विज्ञानस्य भागः प्रायः नास्ति । संस्कृतवाङ्मये यत् ज्ञानं निहितम् अस्ति तत् विज्ञानसमन्वितम् अस्ति । तर्हि किं नाम विज्ञानम् ?
अमरकोषस्य पङ्किः अत्र स्मर्तव्या – “ मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः” इति । संस्कृते तावत् न केवलं मोक्षविषयिणि विद्या, अपि तु तदितरत् ऐहिकसुखसाधकं ज्ञानं चापि अस्ति । किन्तु अद्यापि बहवः अज्ञानिनः संस्सकृतस्य केवलं धार्मिकविधि-विधानोपयोगित्वरूपं कल्पयन्ति । ‘प्राचीनैः यथा आध्यात्मिकविषये श्रद्धा दत्ता, न तथा वैज्ञानिकविषये’ इति केचिद् वृथा भावयन्ति । रसरत्नाकरः, रसरत्नसमुच्चयः, रसेन्द्ररसङ्गहः इत्यादयः ग्रन्थाः तादृशानां नेत्राञ्चनकल्पाः सन्ति ।
आधुनिकवैज्ञानिकैः विज्ञानस्य याः शाखाः अवलम्बिताः, प्रायः सर्वाः अपि ताः शाखाः प्राचीनैः महामनीषिभिः भारतीयैः पोषिताः । आधुनिकैः ‘केमिस्ट्री’(रसायनशास्त्रम् ) इति नाम्ना विज्ञानस्य यः भागः व्यवहियते सः भागः सहस्त्रवर्षेभ्यः पूर्वमेव भारते रसशास्त्रनाम्ना व्यवहियमाणः आसीत् ।
भारतीयरसग्रन्थेषु पारदः अभ्रकादिमहारसाः, उपरसाः धातवः कनकरजतादिलोहिनि, मिश्रलोहानि – एतेषां गुणाः लक्षणानि, तदुपलब्धिस्थानम्, प्रयोगशालानिर्माणम्, यन्त्रनिर्माणम्, शुद्धीकरण- विधिः, सत्त्वपातनम्, द्रुतिः (द्रवीकरणम्), भस्मकरणम्, रसौषध- निर्माणम्, तत्सेवनविधिः, लोहवेधद्वारा सुवर्णनिर्माणम् – इत्येवं बहुषु अंशेषु वैज्ञानिकं विवरणम् उपलभ्यते । रसशास्त्रविषये धातुविज्ञानविषये च (chemistry and Alchemh) प्राचीनभारतीयानां संस्कृतस्य च योगदानं किम् इति स्मर्तुम् ईषत् प्रयासः विधीयते अत्र ।