Category Archives: Uncategorized

अनूदिता कज्जली

अनूदिता कज्जली

आचार्य डॉ. भूषणलाल शर्मा

गुरुविरजानन्द गुरुकुल, करतापुर
अब के सावन में शरारत ये मेरे साथ हुई ।
मेरा घर छोड़के कुल शहर में हरसात हुई ।।
कीदृगुपहासेऽभवन्मे नभसी मासि सभगते ।
गृहं मे समुपेक्ष्य देवीऽवर्षतात्र पुरेऽखिले ।।
जिंदगी भर तो हुई गुफतगू गैरों से मगर ।
आज तक हमसे हमारी न मुलाकात हुई ।।
जीवनं यावन्मदीयं मेलनं जातं पर परैः ।
कि मदीय मेलनं जातं मया नद्यावधि ।।
आप मत पूछिए क्या हम पै सफर में गुजरी ।
था लुटेरॆ का जहां गाँव वहीं रात हुई ।।
कि नु पृच्छसि त्वं मदीया कीदृशी यात्राऽभवत् ।
लुण्टाकानामतसथ एव गता मे यामिनी ।।
हर गलत मोड़पै ठोका न किसी ने मुझको ।
एक आवाज़ तेरी जबर से मेरे साथ हुई ।।
अध्वनि भ्रष्टोऽपि हाऽहं वारितो न पदे पदे ।
स ध्वनिस्ते सङ्रभूतो मेऽभवद्यस्माद् दिनात् ।।
मैंने पूछा कि मेरे देश की हीलात क्या है ।
इक भिखारी से तभी मेरी मुलाकात हुई ।।
मया पृष्टोऽसौ दशा का वर्तते देशस्य मे ।
सत्वरं हा दृष्टिथमायात एको भिक्षुकः।।
सौजन्यम्-विश्व-संस्कृतम् (त्रैमासिकम्) जून, सितम्बर, 2010 ई०
विश्वेश्वरानन्द-वैदिकशोध-संस्थानम्
साधु-आश्रमः, होश्यारपुरम् पञ्जाब

आयुर्वेदः अन्वेषणम्

आयुर्वेदः
ग्रन्थपरिचयः –
आयुर्वेदः संसारस्य प्राचीनतमासु चिकित्साप्रणालिषु अन्यतमः ग्रन्थः वर्तते । अयं च ग्रन्थः अथर्ववेदस्य विस्ताररूपः वर्तते । अयं विज्ञान-कला-दर्शनानां सम्मिश्रणं वर्तते । “जीवनस्य ज्ञानमायुर्वेदः” इति एव वेदस्य अस्य साररूपं वर्तते ।आयुर्वेदस्य रचनाकालः 3,000 तः 50,000 वर्षपूर्वम् अर्थात् सृष्टेः उत्पत्तिकालस्य उताहो तत्समाकालेस्यएव वर्तते ।
तन्त्रांशपरिचयः –
आयुर्वेदतन्त्रांशः आयुर्वेदनाम्नः प्रसिद्धस्य जीवनज्ञानग्रन्थस्य कृते सज्जीकृतः वर्तते । येन माध्यमेन प्रयोक्ता अन्वेषणकोष्ठके कमपि जिज्ञासितविषयं विलिख्य तत्सम्बद्धं मूलभूतज्ञानं प्राप्तुं शक्नोति संस्कृतेन विस्तरेण च ।
तन्त्रांशनिर्माणोद्देश्यम् –
अस्य तन्त्रांशस्य निर्माणोद्देश्यं प्रयोक्तॄणां कृते अध्ययनाय सारल्यसम्पादनम् अपि च अनुसन्धानपरकाध्ययनदिशि शोधकतॄणां प्रोत्साहनम् अस्ति ।
अन्वेषणप्रकाराः –
अन्वेषणीयस्य शब्दस्य अनुक्रमणीनिर्धारके तन्त्रेऽस्मिन् त्रिविधा अन्वेषणप्रकाराः वर्तन्ते । ते च –
1. प्रथमः प्रकारः – अन्वेषणकोष्ठे स्वयं शब्दः टङ्कणीयः ततः तत्राग्रवतिपिञ्जः नोदनीयः । तस्य शब्दस्य यत्र-यत्र वृत्तिः भवेत्, तानि सर्वाणि स्थानानि संक्षिप्त-सन्दर्भ-सहितानि सूचीरूपेण प्रस्तुतानि भवन्ति । तेषु कस्मिश्चिदपि यदा नोदनं क्रियते तदा अन्वेषितशब्दः यस्मिन् वर्ततेसः श्लोकः विस्तृतया सूचनया सह प्रस्तुतः भवति ।
2. द्वितीयः प्रकारः- अन्वेषणपृष्ठे अक्षरमालायां कस्मिंश्चिदपि अक्षरे यदा नोदन् क्रियते, तदा तेन अक्षरेण आरभ्यमाणाः सर्वे शब्दाः यत्र-यत्र वर्तन्ते तेषां स्थानानां संक्षिप्त-सन्दर्भ-सूचनया सह सूचीबद्धाः प्राप्यन्ते । तत्र पुनः कस्मिश्चदशब्दे नोदनेन तस्य वृत्तितायाः विस्तृतः परिचयः प्राप्यते ।
3. तृतीय प्रकारः – अन्वेषणस्य प्रकारेऽस्मिन् तन्त्रस्य चयनं च कृत्वा ततः परम् अध्यायस्य चयनं कृत्वा पिञ्जः नोद्यते तदा तदध्यायवर्तीणां सर्वेषां शब्दानां सूची संक्षिप्त-सन्दर्भ-सहिता प्राप्यते । तत्र पिञ्जस्य नोदनेन शब्दाधारितायाः वृत्तिताया आमूलं विस्तृतं विवरणं प्राप्यते ।
विशेषताः –
1. प्रयोगकर्तुः कृते अन्वेषणाय प्रयोगाय च अतीव सरलं वर्तते ।
2. संस्कृमाध्यमेन एव सर्वं विवरणं निहितं वर्तते ।
3. अत्र निहितशब्दानाम् अन्वेषणं Online अन्येषु ग्रन्थेषु कर्तुं शक्यते ।
न्यूनता –
1. संस्कृतभाषामतिरिच्य अन्यासु भाषासु प्रयोगाय भाषाविकल्पः न वर्तते ।

Source – http://sanskrit.jnu.ac.in/ayur/ibasic.jsp

संस्कृत समाचार, 16/12/2015

श्रीनारायणगुरुवर्यः केरलस्य आध्यामनेता

– मोदी वर्यः

शिवगिरः – आदि शङ्करस्य अद्वैत सिद्धान्तान् अनुगम्य केरलान् नीतवान् श्री नारायणगुरुः इति मोदिवर्येण उक्तः। समूहः आपति पतिते सति अभ्युद्धानाय महात्मनः उदेति इति हिन्दु धर्मस्य वैशिष्ट्यमेव। तद्वद् केरले अवतरितः महापुरुषः भवति गुरुदेवः इति मोदिवर्येण स्पषष्टीकृतः। शिवगिरि आश्रमेषु भाषमाणः आसीत् सः। 5.15 वादने आश्रमममागतं प्रधानमन्त्रिणं सन्यासिनः सम्यक् स्वीकृतवन्तः।

भा ज पा शासने राष्ट्रस्य महती प्रगतिः – प्रधानमन्त्री।

 

तृश्शिवपेरूर् – भारते भाजपा दलस्य नेतृत्वे नूतनसर्वकारस्य अधिकारप्राप्त्यनन्तरं व्यावसायिक-कार्षिकादिषु मण्डलेषु राष्ट्रस्य महती अभिवृद्धिः सञ्जाता इति प्रधानमन्त्री नरेन्द्रमोदी प्रस्तूयत।केरले तृश्शूर् जनपदे भाजपादलेन आयोजिते सम्मेलने प्रभाषणं कुर्वन्नासीत् मोदिवर्यः।
२०१४ तमे संवत्सरे राष्ट्रस्य व्यावसायिकवृद्धिः -२.७% आसीत्। २०१५ ओक्टोबर् मासे ९.२%वृद्धिः अभवत्।राष्ट्रे विदेशनिक्षेपः ४०% अवर्धयत। मोदिवर्यस्य प्रभाषणं राज्याध्यक्षेण वि. मुरलीधरेण अनूदितम्।

लिखित समाचार 16/12/2015

सिंहपुरम् (सिङ्गपुर् )राज्यस्य उपग्रहान् नेतुं
भारतस्य पी एस् एल् वि -सि २९

चेन्नै – सिंहपुरराज्यस्य उपग्रहपञ्चकेन सह भारतस्य पि एस् एल् वि सि २९ बुधवासरे अन्तरीक्षम् उद्‌गच्छति । 400 किलोग्रां मितः टेलियोस् – अनेन एकः उपग्रहः द्वौ मैक्रो उपग्रहौ , त्रयः नानो उपग्रहाः च विक्षिप्यन्ते। अन्त्राप्रदेशस्यश्रीहरिक्कोट्ट सतीश् धवान् बहिराकाशकेन्द्रस्य प्रथमा विक्षेपण वेदिकाभ्यः सायं षट् वादने विक्षिप्यते ।
सिंहपुरस्य एन्.टि विश्वविद्यालयस्य 123 किलो मितः प्रकृतिनिरीक्षण उपग्रहः भवति। वेलोक्स् सी ऐ, 13 किलो भारेण मितः वेलोक्स् – II, अतनोक्स् – 1, सिंहपुर राष्ट्रिय विश्वविद्यालयस्य केन्त् रिड्ज् – 1, ग्लासिय एते अन्याः उपग्रहाः टेलियोसः – रिमोत् सेन्सिङ्ग् निरीक्षण उपग्रहः भवति। 550 कि मी दूरं भ्रमन् अन्तरं 670 किलो मितः उपग्रहपञ्चकान् भ्रमणपथं नेष्यते ।

मुद्राचिकित्सा -2

आरोग्यकारकमुद्राः

मुद्राः असङ्ख्याः वर्तन्ते। एतासां प्रयोगः देवि-देवानां पूजोपासनासु, मन्त्र-तन्त्रेषु, धार्मिकाऽनुष्ठानेषु, नृत्ययोगसाधनादिषु च भवति। परन्तु अत्र ताः एव मुद्राः प्रदर्श्यन्ते प्रकाशिताः वा क्रियन्ते याः मानवस्य शारीरक-मानसिकदोषान् दूरीकृत्य तस्य शारीरक-मानसिकाध्यात्मिक-विकासे सहायकाः भवितुं शक्नुयुः यासां च साहाय्येन मानवः रोगाणां चिकित्सां कर्तुं शक्नुयात्।

प्रमुखारोग्यकारक-मुद्राणां नामानि निम्नलिखितानि सन्ति-

  1. ज्ञानमुद्रा
  2. वायुमुद्रा
  3. आकाशमुद्रा
  4. शून्यमुद्रा
  5. पृथ्विमुद्रा
  6. सूर्यमुद्रा
  7. वरुणमुद्रा
  8. जलोदरनाशकमुद्रा
  9. अपानमुद्रा
  10. प्राणमुद्रा
  11. शङ्खमुद्रा
  12. सहजशङ्खमुद्रा
  13. अपानवायुमुद्रा
  14. लिङ्गमुद्रा
  15. ध्यानमुद्रा चेति।

मुद्राकरणस्य सामान्यनियमाः –

उपर्युक्तमुद्राः आरोग्यदृष्ट्या अत्यन्तप्रभावशालिन्यो वर्तन्ते। एताः स्त्र्यिः, पुरुषाः, बालकाः, वृद्धाश्च सर्वे कस्यामपि अवस्थायां कस्मिन्नपि समये कर्तुं शक्नुवन्ति। अस्य कार्यस्य कृते उपासनासाधनादिक-समये क्रियमाणां मुद्राणामिव आसनविशेष-मञ्च-दिक्-समयादीनां विवशता न भवति।

एताः मुद्राः गमना-गमनसमये, शयन-जागरणसमये, यात्रासमये, दूरदर्शनादीनां दर्शनसमये, वार्तालापकरणसमये, सांसारिककार्यकरणसमये अथवा यदा अभिलाषा जायते तदा कर्तुं शक्यन्ते।

एतासां मुद्राणां सामान्यनियमाः निम्नलिखिताः सन्ति –

  • मुद्राः उभाभ्यां हस्ताभ्यां कर्त्तव्याः। एकेन हस्तेन अपि करणेन लाभो भवति यथा- ध्यानमुद्रा। वामहस्तेन या मुद्रा विधीयते तया शरीरस्य दक्षिणाङ्गानि प्रभावितानि भवन्ति। दक्षिणेन हस्तेन च या मुद्रा क्रियते तया शरीरस्य वामाङ्गानि प्रभावितानि भवन्ति।
  • मुद्रायाम् अङ्गुलीनां स्पर्शनसमये नोदनम् अल्पं स्वाभाविकं च भवितव्यम्। अवशिष्टाः अङ्गुल्यः पूर्णशक्त्या ताननाऽपेक्षया सहजभावेन स्थापनीयाः। मुद्रासु अङ्गुलीनां स्पर्शः अधिकः महत्त्वपूर्णः वर्तते। अवशिष्टाऽङ्गुलीनां सुविधाऽनुकूलस्थापनेन अपि लाभः भवति।
  • कस्याश्चिदपि मुद्रायाः अभ्यासः दिवसे अन्यूनं 45 कलाः पर्यन्तम् उभाभ्यां कर्त्तव्यः। एतत् मुख्यतया साधकाय आवश्यकम्। एतया 45 कलात्मिकया साधनया शारीरिकतत्त्वेषु वर्धनक्रमे परिवर्तनं भवति।

सामान्यमानवः एतासां मुद्राणाम् अभ्यासं प्रारम्भे 10 कलात्मकसमयात् आरभ्य अधिकाधिकं 1 होरात्मकसमयपर्यन्तं वर्धितुं शक्नोति।

सुकरो विधिः –

यदि कश्चन मनुष्यः प्रतिदिनं 45 कलात्मकसमये एकां मुद्रां कर्तुं क्लेशम् अनुभवेत् तर्हि सः तां मुद्रां प्रतिदिनं सायं प्रातः 15-15 कलात्मकसमयेन नियमितरूपेण कुर्यात्। अनेन विधिना अपि वाञ्छितफलं प्राप्तुं शक्यते। परन्तु फलप्राप्तौ किञ्चिद् विलम्बः भवितुं शक्नोति। श्रद्धया मुद्राभ्यासकरणात् अवश्यमेव रोगस्य निवृत्तिः भविष्यति। रोगिणश्चेत् स्वस्थाः भविष्यन्ति, सामान्यस्वस्थाश्चेत् ततोऽपि अधिकस्वस्थाः भविष्यन्ति।

रोगदशायाम् –

रुग्णाऽवस्थायां संवेशनोपवेशनस्थितौ अथवा अन्यस्यां कस्यामपि स्थितौ तत् रोगसम्बन्धितमुद्रायाः तत्कालमेव प्रयोगः कर्तुं शक्यते। यद्यपि कस्यचिद् रोगविषेशस्य कृते विशिष्टमुद्रायाः समयः 45 तः 50 कलापर्यन्तं वर्तते, परन्तु तथाऽपि आवश्यकतायाः अथवा सामर्थ्याऽनुसारं सा मुद्रा न्यूनाधिककालपर्यन्तमपि कर्तुं शक्यते। रोगः यावान् पुरातनः भवति तन्निवृत्तिः अपि तावता एव अधिकेन समयेन भवति। पुनरपि एकं क्षणमपि कृतः मुद्राभ्यासः अस्माकं शरीराऽभ्यन्तरं सूक्ष्माऽतिसूक्ष्मस्नायुमण्डलस्य केन्द्रेषु महत्त्वपूर्णयौगिकचक्रेषु च अद्भुतप्रभावपूर्णं कम्पनोत्पादने सहायकः सिद्धः भवति। काश्चन मुद्राः रोगनिवृत्तिपर्यन्तमेव कर्तव्याः, यथा- शून्यमुद्रा वायुमुद्रा चेति। रोगनिवृत्तेः अनन्तरम् अधिकसमयं यावत् एतासां नियमिताभ्यासेन हानेः सम्भावनापि भवितुं शक्नोति। काश्चन मुद्राः स्वेच्छानुसारम् अधिकाधिकसमयं यावत् करणेन लाभो भवति, यथा- प्राणमुद्रा, ज्ञानमुद्रा, अपानमुद्रा, पृथ्विमुद्रा चेति।

मुद्राणां प्रभावः-

कासाञ्चिद् मुद्राणां लाभः तत्कालमेव भवति, यथा- शून्यमुद्रा एवं च अपानमुद्रा। काश्चनमुद्राः दीर्घकालीनाः सन्ति याः दीर्घकालीनाभ्यासानन्तरं स्वस्थायिप्रभावं प्रकटयन्ति। ज्ञानापानपृथ्विप्राणमुद्राणां यावान् अधिकः अभ्यासः करिष्यते तावानेव हितकरः प्रभावः भविष्यति। विशेषतः प्राणमुद्रायाः अभ्यासः सर्वेषां स्वस्थाऽस्वस्थमानवानां कृते लाभप्रदः वर्तते। तथा च एषा इच्छानुसारं कर्तुं शक्यते। ये नीरोगिणः तथा च स्वास्थ्याभिलाषिणः सन्ति तैः प्राणमुद्रायाः तथा च ज्ञानमुद्रायाः अभ्यासः प्रतिदिनं कञ्चिद् समयम् अवश्यमेव कर्त्तव्यः।

अन्योपचारैः सार्धम् –

एताः मुद्राः अन्योपचारेण सार्धमपि कर्तुं शक्यन्ते। मुद्राभिः चिकित्सा कस्यचिदपि विधस्य उपचारे कामपि बाधां न करोति, अपितु रोगं शीघ्रं दूरीकर्तुं सहायिका भवति। औषधान्तरं स्वीकुर्वन् रोगी यदि श्रद्धया मुद्राचिकित्सायाः अभ्यासमपि कुर्यात् तर्हि शीघ्रं लाभः भविष्यति। यदि मुद्राप्रयोगे विश्वासः अपि नास्ति चेदपि मुद्रा स्वकीयकार्यम् अवश्यमेव करिष्यति।

मुद्राप्रयोगेण शरीरे यादृशं परिवर्तनं सम्भवम् अस्ति तत् विज्ञानाय सर्वात्मना असम्भवम् अस्ति। यतोहि शरीरस्य समस्तसूक्ष्मनाडिकेन्द्राणां तथा चक्राणां पिञ्जाः द्वयोः करतलयोः सन्तीत्यतः तानि नाडिकेन्द्राणि चक्राणि च प्रभावितानि भवन्ति। उदाहरणार्थम् – कश्चन मनुष्यः अकस्मात् हृदयाघातेन पीडितः अभवत् तथा च तस्य पार्श्वे किञ्चिदपि तात्कालिकं प्रभावशालि-औषधं नास्ति। एतादृश्यां स्थितौ यदि सः कञ्चित् मनुष्यं चिकित्सकम् आनिमन्त्रयितुं प्रेषणस्यापेक्षया तत्क्षणे द्वाभ्यां हस्ताभ्याम् अपानवायुमुद्रां कुर्यात् तर्हि केषुचिदेव क्षणेषु मुद्रायाः प्रभावेण सः आत्मानम् अप्रभावितहृदय इव अनुभविष्यति अथवा तस्मात् स्वात्मानं मुक्तः इव अनुभविष्यति। फलतः चिकित्सकस्य आगमनात् पूर्वं सः मनुष्यः मृत्योः ग्रहणात् स्वात्मानं निर्मोक्ष्यति।