Category Archives: Uncategorized

बरहतन्त्रांशः

बरहतन्त्रांशः

बरह इत्युक्ते ‘लेखनम्’ इत्यर्थः भवति । अत्र वयं अनूच्चारणकुञ्चिकापटलम् (phonetic keyboard) इत्यस्य उपयोगं कर्तुं शक्नुमः यत्र च वयं यां कामपि भारतीयभाषां सामान्य-आङ्ग्ल-कुञ्चिकापटलम् (standard English keyboard) उपयुज्य लेखितुं शक्नुमः । अत्र प्रयोक्तारः लेखनावसरे अनानुकूल्यं न अनुभवन्ति । वास्तवरूपेण अस्मिन् तन्त्रांशे लेखनं बहु सुलभं यतोहि, तत्र यथा आङ्ग्लभाषायां अस्माकं नाम लिखामः तथैव कन्नडहिन्दि-आदिभाषायामपि लिखामः । यथा –
वदतु संस्कृतम् । जयतु भारतम् ।
vadatu saMskRutam | jayatu bhAratam |
बहवः भारतीयभाषिकतन्त्रांशाः True Type Fonts (ANSI encoding) इत्यस्य आधारेण निर्मिताः सन्ति । बहु वर्षेभ्यः प्राक् Windows/Linux इत्यादिसंस्थाः Open Type Fonts (Unicode encoding) इत्यस्य परिचयं कारितवन्तः । अद्यत्वेऽपि भारतीयभाषिकतन्त्रांशाः अधिकतया True Type उपयुज्य एव निर्मीयन्ते अपि च अत्यधिकतया प्रकाशनेषु, online प्रकाशनेषु च ANSI आधारितानि True Type Fonts एव उपयुज्यते । एवं सति, बरहतन्त्रांशः अत्र ANSI अप्पि च UNICODE इत्यनयोर्मध्ये विद्यमानं दूरतां निवारयति । वयं इमं तन्त्रांशमुपयुज्य सुलभतया ANSI मध्ये विद्यमानं लिखितम् UNICODE मध्ये परिवर्तयितुं शकोति । उदाहरणार्थम्- कस्मिंश्चित् यन्त्रे यत्र UNICODE आश्रितं नास्ति तत्र यदि किञ्चन UNICODE मध्ये लिखितं mail प्राप्नोति तर्हि सः तत् ANSI मध्ये परिवर्त्य पठितुं शक्नोति ।
बरहतन्त्रांशः विविधभाषासु विद्यमानलिपिभिन्नतामपि दूरीकरोति । एषः सर्वभाषां एकस्मिन्नेव सङ्केते (code) आनीतवान् अस्ति । अतः अत्र एकस्याः भाषायाः लिप्या लिखितं लेखं अपरस्याः भाषायाः लिप्यां परिवर्तयितुं शक्यते । उदाहरणार्थं, कश्चन द्रविडः यः हिन्दीं जानाति सः हिन्दीभाषया किञ्चन mail प्राप्तवान् । यदि सः देवनागरीलिपिं पठितुमक्षमः अस्ति तर्हि सः सुलभतया तां देवनागरीलिपिं द्रविडलिप्यां परिवर्त्य पठितुं शक्नोति ।
एवं प्रयोक्ता अत्र सुलभतया स्वेच्छां भाषालिपिं टङ्कयितुं शक्नोति अपि च कतिपय-नोदनेनैव बहुविधपरिवर्तनानि अपि कर्तुं शक्नोति ।
अधिकविवरणार्थं अधोनिर्दिष्टं जालपुटं पश्यन्तु –
http://www.baraha.com/about.htm
न्यूनताः –

http://baraha.com/download/BarahaSetup.exe

संस्कृत समाचार, 10/12/2015

केरले संस्कृत अक्कादमी आरन्भणीया
-डो बलदेवानन्दसागरः।

कोष़िक्कोट् – केरलराज्ये संस्कृत अक्कादमी आरम्भणीया इति सुप्रसिद्धः संस्कृतवार्ताप्रवाचकः डो. बलदेवानन्दसागरः निरदिशत्।केरलस्य सार्वजनिकशिक्षाविभागेन “संस्कृतं सांस्कृतिकनवोत्थानाय” इत्यस्मिन् विषये सञ्चालिते देशीयसंगोष्ठ्यां मुख्यप्रभाषणं कुर्वन्नासीत् सागरवर्यः।
इदानींतनकालीयं सांस्कृतिकापचयम् अपाकर्तुं संस्कृतशिक्षणम् अपेक्षणीयमिति तेनोक्तम्।

समाजे विद्यमानानां बहूनां धर्मच्युतीनां मूलहेतुः मानविकमूल्यानाम् अभावो भवति।मानविकमूल्यानां प्रचारः संरक्षणं च संस्कृतपठनेनैव सिद्ध्यति।संस्कृतेनैव संस्कृतिः इत्यतः संस्कृतभाषायै अक्काादमीसंस्थापनम् अनिवार्यम्।बलदेवानन्दवर्यः उद्घोषितवान्।
जिल्लापञ्चायत्त् समित्याः अध्यक्षः बाबू परश्शेरीवर्यः सम्मेलनस्य उद्घाटनं कृतवान्। डि डि ई डो गिरीष् चोलयिल् अध्यक्षस्थानमलंकृतवान्।
संस्कृतविभागस्य सविशेषाधिकारी (Special officer)डो. टि डि सुनीतीदेवी HSS प्रविश्या उपनिर्देशकः के गोकुलकृष्णः कोष़िक्कोट् विश्वविद्यालयस्य संस्कृत विभागाध्यक्षा के के गीताकुमारी केरल संस्कृत अध्यापक फेडरेषन् इति संस्थायाः मुख्यकार्यदर्शी टि के सन्तोष् कुमारः राज्याध्यक्षः वेेणु चोव्वल्लूर् इत्यादयः प्रभाषणमकुर्वन्।सम्मेलनान्ते कर्णभारम् इति संस्कृतनाटकस्य रङ्गमञ्जे अवतरणमपि आयोजितम्।

झार्खण्ड् हरियाना राज्ययोः रेल्यानदुर्घटना -१५ मरणानि।

राञ्ची/पल्वार् – झार्खण्ड् राज्ये हरियानाराज्ये च संवृत्ते धूमयानदुर्घटनाद्वये १५ जनाः हताः।
झार्खण्डे राञ्चीनगरात् ७० कि मी दूरे भूर्कुण्टानिस्थानस् य समीपे पालकशून्ये समतलतरणे(level cross) धूम-कार् यानयोः संघट्टने १४ कार्यानयात्रिकाः मृताः। हरियानायां पल्वाल्प्रदेशे धूमयानयोः मिथः संघट्टने एकः यानचालकः मृतः।

संस्कृत समाचार

पञ्चमा राष्ट्रिय-पत्रकार सङ्गोष्ठी – नवदिल्याम्।

नवदिल्ली- संस्कृतं संस्कारयति विश्वम् इत्युद्घोषयन् संस्कृतपत्रकार सङ्घ: बि. ए. पि. एस् स्वामिनारायणशोधसंसथा च संयुक्ततया आयोज्यमानः पञ्चम: राष्टियसंगोष्ठी अद्य दशवादने समारभत । पद्मश्री: आचार्य: डा. रमाकान्त शुक्लवर्यस्य अध्यक्ष्ये आरब्धमाने महामेलने संस्कृतलोकस्य प्रियभाजनं डा. बलदेवानन्दसागर: स्वागतं व्याहरत् । सारङ्गपुरस्य अक्षरधाम – शोधसंस्थायाः अध्यक्षः डा. साधु भद्रेशदास महोदयः मुख्यातिथितिः आसीत् । गन्धिनगरस्य आर्षसंशोधन केन्द्रस्य निदेशकः षड् – दर्शनाचार्य: साधु: श्रुति प्रकाशदास-महाराजः उद्घाटनभाषणमकरोत् । सारस्वतातिथ्ये लाल् बहादूर् राष्ट्रिय-संस्कृत विश्वविद्यालयस्य कुलपति: प्रो. रमेशकुमार पाण्डेय: अवर्तयत् च। ११ दिने सायं सङ्गोष्ठी संपूर्णं भविष्यति। आभारतं विद्यमानाः संस्कृतपत्रकाराः दिन द्वयं यावत् अत्र भागभाजः भविष्यन्ति।