Category Archives: Uncategorized

केरले उष्णतरङ्गः

केरले उष्णतरङ्गः; सूर्यातपेन त्रयः मृताः

sunकोच्ची > केरलराज्ये इदंप्रथमतया उष्णतरङ्ग इति पर्यावरणविशेषः स्थिरीकृतः। पालक्काट् कोष़िक्कोट् आदिषु जनपदेषु कतिपयदिनैः अनुवर्तमानं महत्तापं परिगणयन् केन्द्र पर्यावरणविभागाधिकृतैः एवं प्रख्यापितम्।
ह्यः त्रयः कर्मकराः सूर्याघातेन मृताः। कोल्लं जनपदे आयूर् प्रदेशनिवासी जि. गोपिः(65) केदारे कर्षणवेलायां सूर्यातपेन मृतः। कोट्टयं जनपदनिवासी धीवरश्च साबुः(43) , कण्णूर् जनपदीयः ६८वयस्कः केरवृक्षारोहणकर्मकरश्च जोसफः सूर्यातपेन मृतावन्यौ।

भारतं विरुद्ध्य एफ्

भारतं विरुद्ध्य एफ्-१६ युद्धविमानानि उपयोक्तुं पाकिस्थानः

विमानम्वाशिगटन् > पाकिस्थानेन एफ् १६ युद्ध विमानानि भारतं विरुद्ध्य उपयोक्तुं साध्यता अस्ति इति यू एस् नियम विदग्धाः। अमेरिकया विमानानि पाकिस्थानय दातुं निश्चितः इति ज्ञात्वा ओबामायाः पुरतः राष्ट्रकार्य-विदग्धाः तेषां शङ्का न्यवेदयन्। पाकिस्थानाय एतादृशानां विमानानां प्रदानं नोचितमिति भारतेन पूर्वं निवेदितमासीत् ।

गतिः भारतेन निर्णीयते

गतिः भारतेन निर्णीयते

ISRO-1-28416श्रीहरिक्कोट्टा> सप्तमम् उपग्रहमपि भ्रमणपथं नीत्वा गतिनिर्णयसंविधाने भारतस्य सोपानारोहणम् । अमेरिका, चीना, जपान्, रष्या इत्यादिभिः विकसितराष्ट्रैः सह उपग्रहगतिनिर्णयकार्ये भारतस्यापि स्थानं लब्धम् । भारतस्य सप्तमं गतिनिर्णयोपग्रहम् ऐ आर् एन् एस् एस् १ जि श्रीहरिक्कोट्टायाः सतीष्धवान् विक्षेपणकेन्द्रात् अद्य १२.५५ वादने पि एस् एल् वि सि ३३ आकाशबाणः विक्षेपणमकरोत्। एवं च भारतस्य सर्वे गतिनिर्णयोपग्रहाः भ्रमणपथं संप्राप्ताः। एतेषां उपग्रहाणां युगपत्प्रवर्तनेन भूतल -जल – वायु मार्गेण सञ्चाराय अन्येषां राष्ट्राणाम् आश्रयणं न आवश्यकम्।

आढ्यानां कूटधनानां रहस्यानि बहिरागतानि।

आढ्यानां कूटधनानां रहस्यानि बहिरागतानि।
पानमा सिटि> लोके धनिकाः अधिकारिणश्च आढ्याः कथं करमदत्वा अविहितधनसम्पादनं कुर्वन्ति , व्याजधनानि यथातथं कुर्वन्ति इत्यादीनाम् आघातात्मकाः प्रलेखाः बहिरागताः ।
लोके रहस्यतमस्वभावात्मकसंस्थासु अन्यतमायाः ” मोसाक् फोण्सेक् ” (एम् एफ् ) नामिकायाः संस्थायाः स्रंसिताः भवन्त्येते प्रलेखाः। पानामेति मध्यामेरिक्काराष्ट्रं भवति अस्य विधिसाहाय्यस्थापनस्य आस्थानम् ।
काचन जर्मन् पत्रिकया समाहृतान् १. १ कोटि प्रलेखान् ७६ राष्ट्राणां १०९ प्रसारमाध्यमानां समितिः शोधनं कृत्वा एव वार्तां बहिरानीतवती ।