Category Archives: Uncategorized

जङ्गमदूरवाण्या: सहायेन लेखनं कृत्‍वा निर्मितानि पुस्तकानि अद्य मुक्ता: भविष्यन्ति।

Shri krishan 02
Shri krishan 02

wednesday, april 06, 2016

 

जङ्गमदूरवाण्या: सहायेन लेखनं कृत्‍वा निर्मितानि पुस्तकानि अद्य मुक्ता: भविष्यन्ति।

कोट्टयम् > भर्तृहरेः नीतिशतम् वैराग्यशतकम् श्रृङ्गारशतकम्‌ च  कैरल्याम् अनुवादं कृत्वा प्रकाशयन्ते । त्रयाणां ग्रन्थानाम् टङ्गणक्रिया (DTP) तथा पुटविन्यास: च (layout)  जङ्गमदूरवाणीमुपयुज्य आसीत्। अनेन मार्गेण प्रकाश्यमानः प्रथमः अनुवादग्रन्थः भवति इयं  सुभाषितग्रन्थावली।  ग्रन्थस्य लेखनादिकार्याणि  सम्प्रति वार्तया कृता। पुनर्वाचनाय  कागदलेशोऽपि नोपयुक्तः।  ग्रन्थकारः  मान्यवरः साधु. डा-डा. जेक्कब् कट्टय्कल् महोदयः अमेरिका राष्ट्रे उषित्वा सम्प्रति वार्तायाः  ओण्  लैन् सौकर्यमुपयुक्तवान्। अस्य महात्मनः 101, 102, 103-तमाः ग्रन्थाः भवन्ति। ग्रन्थानां मुद्रणम् कोट्टयं गुड् षेपेर्ट् मुद्रणालयेन कृत:।  अद्य मध्याह्ने द्विवादने  केरलेषु प्रसिद्धां भरणङ्ङानं  क्रैस्तवदेवालयस्य परिकर-प्रकोष्ठे (parish hall ) अभिवन्द्य बिषप् डा. जोसफ् कल्लरङ्ङाट् साधुवर्येण  प्रकाशयिष्यन्ते ।

सुधीन्द्रतीर्थस्वामिनः गंगातटे समाधिं प्रापुः। 

हरिद्वारः – गैडसारस्वतब्राह्मणसमुदायस्य आत्मीयाचार्यः तथा काशिमठाधिपतिः स्वामी सुधीन्द्रतीर्थः गंगाायां व्यासश्रमे समाधिं प्राप। मुम्बैयां आतुरालये चिकित्सितः सःस्वस्य देहवियोगः हरिद्वारे आश्रमे भवेदिति इच्छानुसारं शनिवासरे हरिद्वारम् आनीतवान् आसीत्।
रविवासरे प्रभाते १.३० वादने देहवियोग अभवत्।
  व्यासश्रमे व्यासमन्दिरस्य दक्षिणपार्श्वे स्वामिनः समाधिस्थानं सज्जीकृतम्। स्वामिशिष्यस्य उत्तराधिकारिणः संयमीन्द्रतीर्थस्य कार्मिकत्त्वे समाधिसमारोहः समारब्धः। काशिमठस्य गुरुपरम्परायाः समाधिविधिमनुसृत्य आसन् कार्यक्रमाः। सहस्रशः भक्ताः मन्त्रजपसहितं सन्निहिताः अभवन्।

गतिः भारतेन निर्णीयते

ISRO-1-28416
गतिः भारतेन निर्णीयते
श्रीहरिक्कोट्टा> सप्तमम् उपग्रहमपि भ्रमणपथं नीत्वा गतिनिर्णयसंविधाने भारतस्य सोपानारोहणम् । अमेरिका, चीना, जपान्, रष्या इत्यादिभिः विकसितराष्ट्रैः सह उपग्रहगतिनिर्णयकार्ये भारतस्यापि स्थानं लब्धम् । भारतस्य सप्तमं गतिनिर्णयोपग्रहम् ऐ आर् एन् एस् एस् १ जि श्रीहरिक्कोट्टायाः सतीष्धवान् विक्षेपणकेन्द्रात् अद्य १२.५५ वादने पि एस् एल् वि सि ३३ आकाशबाणः विक्षेपणमकरोत्। एवं च भारतस्य सर्वे गतिनिर्णयोपग्रहाः भ्रमणपथं संप्राप्ताः। एतेषां उपग्रहाणां युगपत्प्रवर्तनेन भूतल -जल – वायु मार्गेण सञ्चाराय अन्येषां राष्ट्राणाम् आश्रयणं न आवश्यकम्।

विद्यालयेषु रन्ध्रिकासम्प्रदायः (पञ्चिङ्) सम्पद्यते।

शुक्रवार, 15 जनवरी, 2016

विद्यालयेषु रन्ध्रिकासम्प्रदायः (पञ्चिङ्) सम्पद्यते।

तोटुपुष़ा> केरलराज्ये सर्वकारीय – आर्थिकोत्तेजितविद्यालयेषु रन्ध्रिकासम्प्रदायम् आविष्कर्तुं चिन्ता प्रवर्तते। अद्ध्यापकाः छात्राश्च अङ्गुलीमुद्रामुपयुज्य (अङ्गुलीवलय 🙂 उपस्थितिं विलिख्यमाना रीतिः भवत्येषा। प्रथमतया इटुक्की जिल्लायां दश विद्यालयेषु परीक्षणरूपेण प्रवर्तनमारभ्यते। आगामिनि अध्ययनसंवत्सरे पूर्णतया प्रवर्तिष्यते।
रन्ध्रिकासमये एव अनन्तपुरिस्थिते सर्वशिक्षा अभियान् कार्यालये ज्ञातुं शक्यते।

बलदेवानन्दसागरः पत्रं प्रेषितवान्।

Thursday, January 7, 2016

बलदेवानन्दसागरः पत्रं प्रेषितवान्।

नवदिल्ली > संस्कृतवार्ता प्रवाचकः डा. बलदेवानन्दसागरः संस्कृताभिमानिनां प्रति पत्रं प्रेषितवान् ।
संस्कृतस्य अधिकाधिकः व्यावहारिकोपयोगः स्याद् इत्येतदर्थं केचन परामर्शाः तेन कृताः । संस्कृतस्य सम्यक् व्यापनमेव तस्य उद्देश:। सर्वषां कृते पत्रमेतत् समर्प्यते ।

नमो नमः !
भवन्तस्तु जानन्त्येव यत् “यस्तु क्रियावान् पुरुषः स विद्वान् |” अतः वयम् आशास्महे यत्  एते अधिगताः अधिगम्यमानाः च परामर्शाः परमार्थेन कार्यान्विताः भवितारः | एतदर्थं प्रशासनेन संस्कृताभिमानिभिः च सम्भूय प्रयतनीयम् | एते परामर्शाः सन्ति- 
[१] यथाशक्यं विद्यालयेषु ,महाविद्यालयेषु ,विश्वविद्यालयेषु, पारम्परिक-पाठशालाषु च संस्कृताध्यापन-माध्यमम् अनिवार्यत्वेन संस्कृतमेव स्यात् |
[२] भाषा-विषयिण्यां शासनिक-नीतौ व्यावहारिकं प्रासङ्गिकं कालोचितं च परिवर्तनं कृत्वा सर्वाधिकं महत्वं संस्कृताय प्रदेयम् |
[३] सामाजिक-सञ्चार-माध्यमेषु संस्कृतोपयोगार्थं प्रोत्साहनं प्रोत्तेजनीयम् |
[४] यथा हिन्द्यां वा क्षेत्रीय-भाषासु वा आङ्ग्ल-भाषायां,  दैन्दिनोपयोगि साहित्यं सर्वत्र सुलभं भवति, तद्वद्  संस्कृत-भाषायामपि भवेत् | यथा भोजनावासालयेषु प्रत्येकमपि कक्षे संस्कृत-ग्रन्थ-स्थापनम्, सर्वाणि सूचनापत्राणि संस्कृत-भाषायामपि अनूदितानि स्युः |
[५] न्यूनान्न्यूनम्, एकं संस्कृत-टीवी-चेनल्, तथा च. संस्कृत-एफ़्.एम्.रेडियो वा संस्कृत-कम्युनिटी-रेडियो स्यात् | राष्ट्रिय-संस्कृत-संस्थानम्, अथ च, कश्चन अपि संस्कृत-विश्वविद्यालयः एतत् सारल्येन कर्तुं पारयति | 
[६] प्रशासन-पक्षतः स्वतन्त्रं संस्कृत-वार्त्ताभिकरणं [न्यूज़-एजेन्सी] स्थापनीयम्, यत्  हि संस्कृत-पत्र-पत्रिकाभ्यः उपादान-सामग्री-प्रेषकं सिद्ध्येत् |
इति 
भवतः बलदेवानन्दसागरः ।

Shri krishan 02
Shri krishan 02

सौरोर्ज-विज्ञाने UAE प्रथमस्थाने।

Tuesday, January 5, 2016

सौरोर्ज-विज्ञाने UAE प्रथमस्थाने।

12

दुबाय् > सौरोर्ज विज्ञानेषु उन्नतिं संप्राप्य UAE राष्ट्रं  राष्ट्रान्तरान् प्रति प्रस्थानम् आरब्धम्‌ । अस्मिन् अन्येषां सहकारिताम् अन्विष्य एव इयं यात्रा ।  ओक्तोबर् चतुर्थ दिनादारभ्य षष्टदिनपर्यन्तं दुबाय्  इन्टर् नाशणल् कण्वन्षन् आन्ट् एक्सिबिशन् सेन्टर् मध्ये आयोज्यमाने वेट्टक्स् प्रदर्शनमेलने  सौरोर्ज विज्ञानस्य विनिमयः भविष्यति ।
भारतस्य विविधराज्येषु सैरोर्ज योजना: सञ्चालयतुं प्रथानमन्त्रिणा मोदिर्वर्येण UAE सन्दर्शनसन्दर्भे चर्चा कृता आसीत् ।

भूमिकम्पः, १४ मृताः २१० आहताः

160104115921-01-india-earthquake-0104-medium-plus-169इम्भाल् > भारतस्य पूर्वोत्तर भागेषु जायमाने भूकम्प दुर्घटनायां १४ जना: मृताः २१० जनाः वृणिताः। तेषु ९ जना: भारतीयाः पञ्च जना: बङ्ग्लादेशे च। रक्षा प्रवर्तनेषु इदानीमपि सैनिकाः निरताः। रिक्टर् मापिन्यां ६.८ अङ्ग:कम्पन तीव्रता मापिता । मणिपुरम्, असम् राज्ययो: तीव्रता अधिकतया अनुभूता। ब्राह्म यामे ४.३५ वादने आसीत् कम्पः। आहतेषु  भारतात् ११० बङ्गलादेशात् १०० जना: च अभवन्। म्यान्मर् तिबत् सीमा च कम्पिता ।

मुफ्ति मुहम्मद् सयीद् गुरुतरावस्थायाम्।

दिल्ली – जम्मू काश्मीरस्य मुख्यमन्त्री मुफ्ती मुहम्मद सयिदः अत्यन्तगुरुतरावस्थायां दिल्ल्याम् एयिंस् आतुरालयं प्रविष्टः। न्यूनरक्तसम्मर्दः न्युमोणियाबाधा रक्तदोषश्च तस्मिन् दृश्यते इति आतुरालयाधिकृतैः उक्तम्।

यू ए ई राष्ट्रे प्रवेशनानुमतिनियमाः परिवर्तयन्ति।

दुबाय् – राष्ट्रप्रवेशनानुमतिनियमेषु यूएई राष्ट्रं सारवत्परिवर्तनं करोति। सन्दर्शकानां कर्मेप्सुनां कृते अत्यन्तं साहाय्यकरं भवति नूतन परिष्करणम्।
विसापत्रं परिष्कर्तुं राष्ट्रात् प्रत्यागमनं न कार्यम्। सन्दर्शकविसापत्रानुसारम् आगतानां नूतनविसापत्रं सम्पाद्य वृत्तिः शक्यते।सन्दर्शकविसापत्रस्य  नवीकरणं सुसाध्यम्। एतादृशं परिष्करणं विदेशीयानाम् उपकारकम् भवति।

पठान् कोट् आक्रमणेषु जैषे-मुहम्मदस्य संबन्धः।

नवदिल्ली > पठान् कोट् व्योमनिलये जातम् आक्रमणं जैषे मुहम्मद् नाम आतङ्कवादिदलेन कृतम् इति ऊह्यते। पाकिस्थानम् आस्थानं कृत्वा  ततः एव आक्रमणाय निदेशः क्रियते। पठान्‌ कोट् संघट्टने मृतानां भीकराणां जैषे मुहम्मद् दलेन साकं संबन्धः अस्ति इत्यस्मिन् तु प्रमाणं लब्धम् ।
              प्रमाणानि गुप्तान्वेषणफलानि च पाकिस्थानाय दत्वा दलान् विरुध्य दण्डं स्वीकर्तुं भारतस्य  प्रेरणा भविष्यति। एतस्मिन् विषये पाकिस्थानस्य प्रवर्तनानि अनुसृत्य एव भारत पकिस्थानयोः सचिवयो: चर्चायाः गति: l