
जङ्गमदूरवाण्या: सहायेन लेखनं कृत्वा निर्मितानि पुस्तकानि अद्य मुक्ता: भविष्यन्ति।



गतिः भारतेन निर्णीयते
श्रीहरिक्कोट्टा> सप्तमम् उपग्रहमपि भ्रमणपथं नीत्वा गतिनिर्णयसंविधाने भारतस्य सोपानारोहणम् । अमेरिका, चीना, जपान्, रष्या इत्यादिभिः विकसितराष्ट्रैः सह उपग्रहगतिनिर्णयकार्ये भारतस्यापि स्थानं लब्धम् । भारतस्य सप्तमं गतिनिर्णयोपग्रहम् ऐ आर् एन् एस् एस् १ जि श्रीहरिक्कोट्टायाः सतीष्धवान् विक्षेपणकेन्द्रात् अद्य १२.५५ वादने पि एस् एल् वि सि ३३ आकाशबाणः विक्षेपणमकरोत्। एवं च भारतस्य सर्वे गतिनिर्णयोपग्रहाः भ्रमणपथं संप्राप्ताः। एतेषां उपग्रहाणां युगपत्प्रवर्तनेन भूतल -जल – वायु मार्गेण सञ्चाराय अन्येषां राष्ट्राणाम् आश्रयणं न आवश्यकम्।
तोटुपुष़ा> केरलराज्ये सर्वकारीय – आर्थिकोत्तेजितविद्यालयेषु रन्ध्रिकासम्प्रदायम् आविष्कर्तुं चिन्ता प्रवर्तते। अद्ध्यापकाः छात्राश्च अङ्गुलीमुद्रामुपयुज्य (अङ्गुलीवलय 🙂 उपस्थितिं विलिख्यमाना रीतिः भवत्येषा। प्रथमतया इटुक्की जिल्लायां दश विद्यालयेषु परीक्षणरूपेण प्रवर्तनमारभ्यते। आगामिनि अध्ययनसंवत्सरे पूर्णतया प्रवर्तिष्यते।
रन्ध्रिकासमये एव अनन्तपुरिस्थिते सर्वशिक्षा अभियान् कार्यालये ज्ञातुं शक्यते।
Thursday, January 7, 2016
नवदिल्ली > संस्कृतवार्ता प्रवाचकः डा. बलदेवानन्दसागरः संस्कृताभिमानिनां प्रति पत्रं प्रेषितवान् ।
संस्कृतस्य अधिकाधिकः व्यावहारिकोपयोगः स्याद् इत्येतदर्थं केचन परामर्शाः तेन कृताः । संस्कृतस्य सम्यक् व्यापनमेव तस्य उद्देश:। सर्वषां कृते पत्रमेतत् समर्प्यते ।
Tuesday, January 5, 2016
इम्भाल् > भारतस्य पूर्वोत्तर भागेषु जायमाने भूकम्प दुर्घटनायां १४ जना: मृताः २१० जनाः वृणिताः। तेषु ९ जना: भारतीयाः पञ्च जना: बङ्ग्लादेशे च। रक्षा प्रवर्तनेषु इदानीमपि सैनिकाः निरताः। रिक्टर् मापिन्यां ६.८ अङ्ग:कम्पन तीव्रता मापिता । मणिपुरम्, असम् राज्ययो: तीव्रता अधिकतया अनुभूता। ब्राह्म यामे ४.३५ वादने आसीत् कम्पः। आहतेषु भारतात् ११० बङ्गलादेशात् १०० जना: च अभवन्। म्यान्मर् तिबत् सीमा च कम्पिता ।
दिल्ली – जम्मू काश्मीरस्य मुख्यमन्त्री मुफ्ती मुहम्मद सयिदः अत्यन्तगुरुतरावस्थायां दिल्ल्याम् एयिंस् आतुरालयं प्रविष्टः। न्यूनरक्तसम्मर्दः न्युमोणियाबाधा रक्तदोषश्च तस्मिन् दृश्यते इति आतुरालयाधिकृतैः उक्तम्।