Category Archives: Uncategorized

भीकराक्रमणं – सुरक्षाभ्रंश अभवत्- रक्षामन्त्री।

Wednesday‍, January 06, 2016

भीकराक्रमणं – सुरक्षाभ्रंश अभवत्- रक्षामन्त्री।

पठान्कोट्ट् – व्योमनिलये संवृत्तं भीकराक्रमणं सुरक्षाराहित्यहेतुतः जातमिति केन्द्र रक्षामन्त्री मनोहरपरीक्करः अवदत्। तीव्रवादिनः अन्तःप्रवेशः आशङ्कां जनयति इत्युक्त्वा परं विशदीकरणाय विमुखःअभवत्।व्योमकेन्द्रसन्दर्शनानन्तरं वार्ताहरान् प्रति भाषमाणः आसीत् मन्त्रिवर्यः।

विश्वविद्यालयेषु योग शास्त्रं- यु.जि.सी व्यवस्थाम् आरब्धवन्तः

विश्वविद्यालयेषु योग शास्त्रं-यु.जि.सी व्यवस्थाम् आरब्धवन्तः

7नवदेहली > राष्ट्रे विश्वविद्यालयेषु योग शास्त्रं पाठ्‌यक्रमं कर्तुं यु.जि.सी व्यवस्थाम् आरब्धवन्तः । योगे विश्वे सर्वत्र व्यायमाने सति प्रधानमन्त्रिणः नरेन्द्र मोदि वर्यस्य निर्देशेन एव अयं परिष्कार: ।  योगशास्त्रे  बि .ए ,एम्. ए  वर्गान्  आरब्धुमेव पद्धतिः ।

सि पि एम् नेतृत्वे धर्मातीत-योगप्रदर्शनम्।

कण्णूर् > सिपिएम् दलनेतृत्वे मन्त्र-प्रार्थनादिधार्मिकाचारान् विना सविशेषपाठ्यक्रममनुसृत्य सज्जानि योगासनानि प्रदर्शितानि। सूर्यनमस्कारसहितानि ३५ आसनानि मन्त्राणि ओङ्कारध्वनिं वा विना केवलं संगीतस्य अनुगमनेन अवतारितानि।

पठान्कोट्ट्व्योमनिलये पुनरपि संघट्टनम्
सैनिकाः वीरमृत्युं प्राप्तः।

नवदिल्ली > पठान्कोट्टव्योमनिलये इतःपरं भीकराः निलीयमानाः सन्तीति प्रत्यभिज्ञाय एन् एस् जि सैनिकैः कृते आक्रमणे पञ्च भीकराः हताः। प्रत्याक्रमणे सप्त सैनिका अपि वीरमृत्युं प्राप्ताः। तेष्वेकः केरलदेशीयः लफ्टनन्ट केणल् निरञ्जन् कुमारः (32)अस्ति।
कोमण्वेल्त् सुवर्णपतकजेता पत्ते सिंहः ,गुरुसेवकसिंहः, हवील्दार् कुल्वन्त् सिंह, जगदीशसिंहः  , सञजीव् कुमारः इत्येते मृत्युमुपगताः अन्ये सैनिकाः।

पञ्चाबे व्योमसेनायाः निलये भीकराणाम् आक्रमणम् ।

Saturday, January 02, 2016

पञ्चाबे व्योमसेनायाः निलये भीकराणाम् आक्रमणम् ।

 

अमृतसर: > सैनिकानां वेषं धृत्वा आगताः भीकराः सेनानिलयम् झटिति प्राप्ता:। रातौ त्रिवादने आरबधम् आक्रमणं अधुनापि प्रचलति। भीकरेषु द्वे मारिता: । प्रदेशवासी टाक्सी चालकः अपि मारितः। अतीव-सुरक्षा वाञ्चितः पतान् कोट् व्योम सेनानिलये एव आसीत् भीकरचतुष्टयानाम् आक्रमणम्I

भीकराणां आक्रमणाय साध्यता अस्ति इति बौद्धिकदलैः सूचना दत्ता आसीत्। तथापि असंभव्य: जायते इत्यस्मात् सुरक्षायाः क्षमता न्यूनतमा इति परिगण्यते ।

त्रिपुराराज्येषु विद्यालयेषु योग शास्त्राध्यनम्

त्रिपुराराज्येषु विद्यालयेषु योग शास्त्राध्यनम्

अगर्तल > पाठ्यपद्धत्यां योगासनमपि सन्निवेश्य त्रिपुरा राज्यस्य सर्वकारः आदर्शराज्यः अभवत्। अत्र सि पि एम् सर्वकारः शासनं कुर्वन्नस्ति। प्रथमकक्ष्यातः अष्टमकक्ष्या पर्यन्तं अद्य आरभ्य योगापरिशीलनस्य शुभारम्भ: |
एतत् अनुशासनमधिकृत्य शिक्षामन्त्री तयपन् वर्येण उक्तः I
प्रथमश्रेण्यां शतं विद्यालयेषु आरम्भं कृत्वा पुनः नगरेषु ग्रामेषु आदिवासि जनविभागानां प्रदेशेषु च प्रसारयितुमुद्दिशयते इत्यपि तेनोक्तम्।
छात्राणां शरीरस्य मनसः च स्वास्थ्य वर्धनमेव अनेन उद्धिश्यते । शैशवे एव योगाध्ययनेन धर्मनिष्ठानां नवयुवकानां निर्माणमेव संभवति।

राज्यस्य संपूर्णे विद्यालयेषु योगाध्यापकानां नियुक्तिः विलम्बं विना भविष्यति। मुख्यमन्त्री माणिक् सर्कारस्य नेतृत्वेन विराजमानेन मन्त्रिसभायोगेन निश्चयमिदं स्वीकृतम्।

प्रधान वार्ता: 31-12-2015

Thursday, December 31, 2015

प्रधान वार्ता: 31-12-2015

प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य दिल्लीमेरठ-एक्सप्रेसवे इति मार्गपरियोजनायाः शिलान्यासो विधास्यते।

म्याँमारदेशे त्रिदेशीयराजमार्गमालक्ष्य एकोनसप्ततिः सेतूनां निर्माणाय केन्द्रीयमन्त्रिमण्डलेन स्वीकृतिर्दत्ता।

मोदिनो लाहौरयात्रया समुत्साहितो नवाज़शरीफ़ो ब्रवीति यद् भारतपाकिस्तानाभ्यां वैरत्यागस्य कालः खलु समागतः।