Category Archives: Uncategorized

जल-शुद्धीकरणाय नूतनसंयुक्तः

Wednesday‍, December 30, 2015

जल-शुद्धीकरणाय नूतनसंयुक्तः – न्यूनव्ययेन ।

1 न्यूयोर्क् > जलमालिन्यानि निमिषाभ्यन्तरेण शुद्धीकर्तुम् शक्त: राससंयुक्तः अमेरिकाराष्ट्रस्य गवेषकैः निर्मिताः। अल्पेन व्ययेन जलं मालिन्यात् मुक्तं कर्तुं शक्याते इति  कूपी जलवाणिज्ये गृहेषुजलशुद्धीकरणाय व्ययः न्यूनीकतुं सहायक एव।
कोर्णल् विशवविद्यालयस्य गवेषकैः पर्यवेषिता इयं विद्या । सितायाः बृहदाकारा तन्मात्रा(सैक्लोडेक्स्ट्रिन्) भवति अयं संयुक्तेषु एक:I आक्टिवेटड् कारबण् सङ्केत:भवति इदानीं उपयुज्यमाना विद्या। एतस्याः काचन अंशेन सितांश: च निवेश्य निर्मीतः अयं संयुक्तः निमिषान्तरेण जलं शुद्धीकरोति इति गवेषकानां नेता प्रोफ. विल् डिच्चल् महोदय: अवदत् । जलप्रवाहः नालिकायाः प्रवाह: अपि अनेन शुद्धीकर्तुं शक्यते अविकसितेषु राज्येषु पानीयजलसमस्यायाः परिहारवत्  विराजते अयम् । लोकेषु आश्वासदायका इयं वार्ता :।

 

काश्मीरे केन्द्रसर्वकारः सफलतां याति।

Tuesday, December 29, 2015

 

काश्मीरे केन्द्रसर्वकारः सफलतां याति।

नवदेहली > केन्द्रसर्वकारस्य विकसन योजना: भीकरान् विरुध्य सुरक्षासेनया कृतानि कार्याणि च कश्मीरे फलप्रदानि भवन्ति इति वृत्तम् । तत्र भीकरप्रवर्तनस्य प्ररिमाणे न्यूनता अस्ति इति सुरक्षा विभागेन सूचितम् ।
कश्मीरे केन्द्रसर्वकारेण कृताः विकसनपद्धतयः अस्मिन् मुख्यं स्थानम् आवहति |

चीनायां सुरक्षादलेभ्यः अधिकारविस्तृतिः ।

 

 

बैजिङ्> सुरक्षादलेभ्य: विस्तृतान् अधिकारान् दत्वा भीकरान् विरुद्ध्य नूतन नियमाय चीनायाम् अङ्गीकारः। एतादृश भीकर-विरुद्ध नियमः चीनया ऐदंप्राथम्येन निर्मितः। कम्यूजणिस्ट् दलेन प्रथमम् अङ्गीकृत्य NPC स्टान्टिङ् कम्मट्याः पुरतः समर्पितः अयं नियम: समित्याः १५९ अङ्गानां अनुज्ञया अङ्गीकृतःI अनेन नियमेन राष्ट्रस्य बहिः अपि भीकरान्‌ विरुद्ध्य आक्रमणाय सैन्येभ्यः सायुध -आरक्षकदलेभ्यश्च अधिकारः अस्तिI तिबत् विभागे अपि नियमस्य प्राबल्यम् अस्तिI नूतन नियम: अमेरिकराष्ट्रेण निरसितः I स्वाभिमत प्रकाशनाय बाधा भवति अनेन नियमेन इति अमेरिका राष्ट्रेण निरीक्ष्यते। अनेन नियमेन स्वतन्त्रतायाः ध्वंसनमेव भविष्यति इति अमेरिकायाः मतम्।

दशलक्षाधिकानाम् आयवताम्  आर्थिकसहायं न लभते।

 

नवदिल्ली > येषां वार्षिकायः दलक्षरूप्यकाणामधिकं जायते तेषां  अनलकोषार्थसाहाय्यं निरोद्धुं केन्द्रसर्वकारेण निश्चितम्। आगामी जनवरिमासादारभ्य पचनवातकाय अर्थसाहाय्यम् अभिलषन्तः उपभोक्तारः आयः दशलक्षात् न्यूनमिति सत्यवाङ्मूलं समर्पयेयुः।अर्थसाहाय्यम् अर्हतावतां परिमितं कर्तुमेव एतादृशं नियन्त्रणम्।   

अफ्गानसंसद् नरेन्द्रमोदिना उद्घाटिता।

Sunday, December 27, 2015

 

अफ्गानसंसद् नरेन्द्रमोदिना उद्घाटिता।

 modiअंबुजा – अफ्गानिस्तान् राष्ट्राय भारतेन निर्मीय दत्तं नवीनं संसद्भवनं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अफ्गानस्य राष्ट्रपतिः मुहम्मद् अषरफ् गनी च मिलित्वा  उद्घाटितवन्तौ। उभयोः राष्ट्रयोः परस्परसौहृदस्य सहकरणस्य च प्रतीकः अस्ति नवीनं संसद्मन्दिरमिति मोदिवर्यः अवोचत्। उभयराष्ट्रसौहृदस्य शाक्तीकरणमुद्दिश्य २००७ तमे संवत्सरे नूतनसंसद्भवनं निर्मीय दातुं भारतं निश्चिकाय।६०० कोटि रूप्यकाणां निर्माणव्ययः अभवत्।भवनसमुच्चये अन्यतमविभागस्य भारतस्य भूतपूर्वप्रधानमन्त्रिणः अटल् बिहारी वाजपेयिवर्यस्य नामकरणाय निश्चय अपि कृतः।

 

तुलू भाषा अङ्गीकृता स्यात्।

कासर्कोट् – अंगीकृतभाषा भवितुं तुलुभाषायाः प्रयत्नः साफल्यं प्राप्नोति।भारत संविधानस्य अष्टमकार्यक्रमे (Schedule) उपस्थापयितुम् उद्दिष्टायां परिगणनापट्टिकायां तुलू अपि अन्तर्भूता।दक्षिणभारतस्य पञ्चसु द्राविडभाषासु प्रधानभूता तुलू ३८तम भाषारूपेण पट्टिकायां स्थानं प्राप्तवती। केन्द्रगृहमन्त्रालयस्य अधीने वर्तमानया समित्या एव अन्तिमनिश्चयः स्वीकरणीयः।

सि. पि. एम्य् देशीय  प्लीनम् सम्मेलनम् आरब्धम् I

कोल्कोत्ता – अधिकारभ्रष्टेषु राज्येषु प्रत्यागमनस्य काहलं घोषयित्वा कम्म्यूणिस्ट् पार्टि आफ् इन्डिया(मार्क्सिस्ट्) दलस्य (सि पि एम्) देशीयप्लीनं सम्मेलनं कोल्कोत्तायां ब्रिगेड् मैताने आरब्धम्।३५ संवत्सरेभ्यःपरमेव दलस्य प्लीनं सम्मेलनं प्रचलति। विविधमण्डलेषु अनुवर्तमानाः नयरूपवत्करणचर्चाः अत्र भविष्यन्ति।

वेदाः भारतसंस्कृतेः प्रभवकेन्द्राः – भारतस्य राष्ट्रपतिः।

Saturday, December 26, 2015

वेदाः भारतसंस्कृतेः प्रभवकेन्द्राः – भारतस्य राष्ट्रपतिः।

55
हैदराबाद् – भारतस्य अमूल्यसंस्कृतेः परम्परायाः च स्रोतः भवति वेदाः इति भारतस्य राष्ट्रपतिना प्रणाब् मुखर्जिना उक्तः। आन्ध्रराज्ये तिरुमलै तिरुप्पति देवस्थाने आयोजिते वेदपाठशालायाः उद्घाटनसन्दर्भे भाषमाणः आसीत् सः।
अस्माकं धार्मिकतायाः आधारः वेदाः ए। व वेदे प्रतिपादिदाः अंशाः व्यक्तेः समूहस्य तथा राष्ट्रस्य च कल्याणाय कल्पन्ते । सार्वजनीक साहोदर्यस्य संदेशः वेदाः प्रसरन्ति ज्ञान- बुधि- धारणा च वेदाध्ययनेन सम्भवति इति च अनेन महात्मना उद्घोषितः ।

सौदी आतुरालये महादग्निबाधा -25 मरणानि।

56जिद्दा- सौदी- यमन् राष्ट्रयोः सीमायां जिसान् प्रदेशे सौदीसर्वकारातुरालये संजाते अग्निदुरन्ते २५ जनाः मृताः। १०७ जनाः दग्धाश्च। अरब्वंशीयाः रुग्णाः तेषां सहायिनश्च दुरन्ते बलिभूताः।

अद्य क्रिस्तु जयन्ति आचरन्ति लोकाः

अद्य क्रिस्तु जयन्ति आचरन्ति लोकाः

5
वत्तिक्कान् नगरे सेन्ट्.पेट्टर् देवालये फ़्रान्सिस् मार्पप्पा आराधनं करोति।

तिरुवैराणिक्कुलं देवीदर्शनमहोत्सवोद्घाटनम् अद्य।

कोच्ची – भारते दक्षिणकैलासः मङ्गल्यवरदायिनीमन्दिरम् इति च प्रख्याते तिरुवैराणिक्कुलं महादेवमन्दिरे अस्य संवत्सरस्य श्रीपार्वतीदेव्याः गर्भगृहस्य द्वारोद्घाटनं देवीदर्शनं च अद्य आरभते।श्रीपरमेश्वरः पार्वतीदेवी च एकस्मिन्नेव गर्भगृहे अनभिमुखं प्रतिष्ठितौ तथापि देवीदर्शनं प्रतिसंवत्सरं धनुमासस्य आतिरनक्षत्रादारभ्य द्वादशदिनपर्यन्तमेव साध्यमिति अस्य मन्दिरस्य सविशेषता। मङ्गल्यसौभाग्याय इष्टसन्तानलब्धये दीर्घमंगल्याय च देवीदर्शनं विशिष्टमिति भक्तजनाः मन्यन्ते।
केरले एरणाकुलं जिल्लायाम् आलुवा अंशे तिरुवैराणिक्कुलं प्रदेशे पूर्णानद्याः (पेरियार्) तीरे इदं मन्दिरं वर्तते। कोच्ची अन्तःराष्ट्रविमाननिलयः १० कि.मी दूरे अस्ति। आलुवा, अङ्कमाली , पेरुम्पावूर् के एस् आर् टि सि बस्याननिस्थानेभ्यः सविशेषलोकयानसेवनानि च अस्मिन् काले लभ्यन्ते।