Category Archives: Uncategorized

विजयप्रभायां सौरोर्जविमानम्।

विजयप्रभायां सौरोर्जविमानम्।

vimanhयुयोर्क> सम्पूर्णतया सौरोर्जेन चाल्यमानं विमानं ‘सोलार् इम्पलस् २’ पसाफिक् समुद्रस्य उपरिमार्गण यात्रामकरोत् । बेरट्रेन्ट् पिकाट् आसीत् विमानचालकः । चालकम् अभिवादनेन अभिवन्द्य ऐक्यराष्ट्रसभाध्यक्ष: बान् कि मुण् दाैत्यमेतत् प्रचोदनात्मकं तथा चरित्रपरं च इति अभिप्रेतम्।

स्व छायाग्रहणभ्रमः

flash n

स्व छायाग्रहणभ्रमः आपदि पतने

कोटैक्कनाल्> मधुरादेशीयः कार्तिक् नामक: युवकः कोटैक्कनाल् विनोदसञ्चारकेन्द्रस्य ‘डोल्फिन् नोस्’ नामकात् गिरेः सहस्रपादात्मकम् अगाधगर्तम् अपतत् । मित्रैः साकं मद्यम् पीत्वा एव युवक: आगतः इति आरक्षकैः सूचितम्। युवकानां मद्यपानासक्तिः तथा स्वछायाग्रहणभ्रम: च इदानीन्तनकाले आपदि पतने मुख्यम् कारणम् भवति इति अधिकृतैः उक्तम्।

चरित्रम् चरित्रकारसृष्टम् किम्?

चरित्रम् चरित्रकारसृष्टम् किम्?चरित्रम् चरित्रकारसृष्टम् किम्?

sahheed-bhagat-singhनवदेल्ली> स्वस्वभावनानुसारं  चरित्रयाथातथ्यानां विपरीतं  कृत्वा प्रकाशनम् इतः पूर्वमेव बहुधा दृष्टं वर्तते। एतस्य नूतनम् उदाहरणं भवति ‘इन्द्यास् स्ट्रगल् फोर् इन्डिपेन्डन्स्’ इति नामकं पुस्तकम्। पुस्तकमेतत् देल्ली विश्ववविद्यालयस्य छात्रैः उपयुज्यमानम् अनुबन्धपुस्तकं भवति। पुस्तकमेतत् चरित-प्रसिद्धाय भगत् सिंहाय आतङ्गवादिनः मुखं ददाति। भारतस्य ‘यथार्थ: विप्लवनायकः’ इति आङ्गलकारै: अपि प्रकीर्तितं भगत्सिंहम् आतङ्गवादिनम् इव चित्रीकुरुतः चरित्रकारौ मृदुला मुखर्जी, बिपिन्चन्द्रः च। न केवलं भगत्सिंहः अपि च चन्द्रशेखर् आसाद:, सूर्यासेन्  इत्यादयः स्वातन्त्र्यसमरनायकाः च पुस्तकेऽस्मिन् आतङ्गवादिरूपेण परामृष्टाः सन्ति। विवादात्‍मकेऽस्मिन् विषये भगत् सिंहस्य बान्धवाः देल्ली विश्वविद्यालयस्य अधिकृतेभ्यः तथा मानव-विभवशेषि-मन्त्रालयाय च निवेदनं समर्पिताः आसन्। तेषाम् अभ्यर्थनां परिगण्य पुस्तकमेतत् पाठ्यपद्धतेः निष्कासयितुं मानवविभवशेषिमन्त्रालय: विश्वविद्यालयं न्यवेदयत्।

चरित्रम्

आतपाघातं प्रतिरोद्धं

आतपाघातं प्रतिरोद्धुं पाकनिरोधः

indexपट्ना >अतितापेन कष्टमनुभूयमाने बीहारे प्रभाते ९ वादनतः सायं ६ वादनपर्यन्तं पाकनिरोधः प्रख्यापितः सर्वकारेण। गतदिने बीहारे बगुसरायां प्रभातकाले पाकसमये तापस्य वाय्वोः च काठिन्येन त्रिशतं भवनानि अग्निबाधया दग्धानि। पाकवेलासु अग्निबाधायाः साध्यता अधिका इति विचिन्त्य एव सर्वकारेण नूतनं परिष्करणं कृतम्। किन्तु निरोधममुं प्रायोगिकं कर्तुं क्लेशः अस्ति चेदपि नियमव्यवहारभीत्या जनाः अनुसरेयुः इत्येव सर्वकारस्य विश्वासः।