Asides

बाली-देशस्य विमानस्थानके- स्वस्त्यस्तु

कश्चित् यदा निर्गच्छेत् तदा आधुनिकैः अस्माभिः उच्यते – ‘बैबै’ इति । बालीस्थे विमानपत्तने एतदर्थं लिखितम् अस्ति – ‘ओं स्वस्त्यस्तु’ इति। यत्र इस्लाममतस्य एव प्राधान्यं, तस्मिन् देशे विमानपत्तने संस्कृतवाक्यं यत् प्रयुक्तम् अस्ति तत् महते आश्चर्याय आनन्दाय च।
भारते यदि एवं कृतं स्येत् तर्हि महती चर्चा, महान् विरोधः च अभविष्यत् ननु ?