Tag Archives: sanskrit

Admissions in progress for the Degree courses at Chinmaya Eswar Gurukula

Admissions in progress for the Degree courses at Chinmaya Eswar Gurukula. Call: +91-75588-96000 | Email: admissionsceg@cvv.ac.in | Visit www.chinmayauniversity.ac.in for more information.

Education in India has become commercial commodity: Scientist via @indiacom http://www.india.com/news/agencies/education-in-india-has-become-commercial-commodity-scientist-2293955/

संस्कृतेन जन्मदिनाभिनन्दनसन्देशः

संस्कृतेन जन्मदिनाभिनन्दनसन्देशः

  नरेन्द्रमोदिवर्यस्य सप्तषष्ठितमं (६७)जन्मदिनावसरं निमित्तीकृत्य असङ्ख्याः जना: शुभाशयं प्रेषितवन्तः ।

   राष्ट्रनायकस्य अभिनन्दनाय जनाः अहमहमिकया प्रवर्तन्ते इत्यत्र नास्ति आश्चर्यम् । अद्यत्वे तु ‘ट्वीट्’ प्रभृतयः व्यवस्थाः सन्ति इत्यतः क्षणमात्रेण सन्देशः प्रेषयितुं शक्यः ।

   प्रधान-मन्त्रिणे यः अभिनन्दनसन्देशः प्रेष्यते तस्य प्रत्युत्तरम् अपि प्राप्यते वैयक्तिकतया इत्यतः लक्षशः जनाः अभिनन्दनसन्देशं प्रेषयन्ति।

   किन्तु विशिष्टः सन्देशः प्रेषितः आसीत् – ‘एपल्’ संस्थायाः कार्यनिर्वाहकमुख्येन (सि.इ.ओ.) टिम्कुक्क्वर्येण । सः आसीत् संस्कृतेन !! ‘वसुधैव कुटुम्बकम्’ इति आसीत् सन्देशवाक्यम्।

    नरेन्द्रमोदिवर्यस्य संस्कृतप्रियतां दृष्ट्वा कुक्वर्येण संस्कृतम् एव अवलम्ब्य सन्देशः प्रेषितः ।

modi-bday

     एतं सन्देशं चतुस्सहस्त्राधिकाः जनाः अन्यस्मै प्रेषितवन्तः । षट्-सहस्त्राधिकाः जनाः स्वस्य इष्टतां (Like) सूचितवन्तः च ।

संस्कृत-चलनचित्र-गीताय प्रशस्तिः

चलनचित्रक्षेत्रं धनसम्पादनोद्देशकमेव भवति । कथावस्तु, दृश्यम्, चित्रीकरणम्, अभिनयः, सङ्गीतं, नृत्यं, निर्देशनम् इत्यादयः सर्वेऽपि एतदेव तत्त्वम् अनुसरन्ति । तादृशे विलक्षणे क्षेत्रे अपि क्वचित् संस्कृताभिमानादयः दृश्यन्ते । अद्यत्वे एकेन संस्कृतगीतेन प्रशस्तिः प्राप्ता अस्ति । तस्य रचयिता अस्ति युसूफली केचेरी इति । तेन पञ्चाधिकेभ्यः दशकेभ्यः मलयाळचलनचित्रक्षेत्रे कार्य कृतं, षट्-शताधिकानि गीतानि रचितानि च । तदीयानि बहूनि गीतानि जनप्रियाणि जातानि सन्ति ।
‘माझा’ इत्यस्मिन् चलनचित्रे उपयुक्तम् अस्ति एकं संस्कृतगीतम् । एतस्य स्वरसंयोजनं यत् कृतं तदर्थं प्रशस्तिः प्राप्ता अस्ति केचेरीवर्येण । अस्य गीतस्य रचयिता सड़ीतनिर्देशकश्चापि अस्ति सः एव । तत् गीतम् अधः अस्ति –
गेयं हरिनामधेयम्
भवभयसागरतरलोपायम्
शाश्वतमृत्युञ्जयम्।।
गेयं हरिनामधेयम्
भवभयसागरतरलोपायम्
शाश्वतमृत्युञ्जयम्।।
चारुकेशिरागालापम्ऽऽऽ।।
श्रुतिलयसङ्गमं सुधानिकेतनम्
निरुपमसदनं नित्यानन्दं
राधामाधवकेलिसाधनम् ।। गेयं हरि…।।
वीतरागं गोपीजारं
यदुकुलबालं मृगमधपालम् ।
विगलितगधनं योगिगम्यम्
चेतोरम्यं गीतागहनं गीतागहनम् ।। गेयं हरि..।।
‘यू ट्यूब्’ इत्यत्र गीतमेतत् श्रोतुं शक्यम् ।
अभिनन्दामः वयम्।
(आङ्ग्ललिप्या मुद्रितम् एतत् अत्र देवनार्या लिखितम्।
द्वित्रस्थले परिष्कारः अपेक्ष्यते इति भाति । मूलं यथा दृष्टं
तथैव मुद्रितम् अत्र ।

बाली-देशस्य विमानस्थानके- स्वस्त्यस्तु

कश्चित् यदा निर्गच्छेत् तदा आधुनिकैः अस्माभिः उच्यते – ‘बैबै’ इति । बालीस्थे विमानपत्तने एतदर्थं लिखितम् अस्ति – ‘ओं स्वस्त्यस्तु’ इति। यत्र इस्लाममतस्य एव प्राधान्यं, तस्मिन् देशे विमानपत्तने संस्कृतवाक्यं यत् प्रयुक्तम् अस्ति तत् महते आश्चर्याय आनन्दाय च।
भारते यदि एवं कृतं स्येत् तर्हि महती चर्चा, महान् विरोधः च अभविष्यत् ननु ?