Tag Archives: america

श्वेतभवने रुद्रमन्त्रोद्धोषः

श्वेतभवने रुद्रमन्त्रोद्धोषः 004

अमेरिकादेशस्य श्वेतभवनम् । तत्र उभौ | किशोरौ ‘नमस्ते रुद्रमन्यव..’ इति रुद्रमन्त्रान् |
सस्वरं पठतः । दर्शनात् एव ज्ञायते – तौ बालौ न
भारतीयमूलौ इति । तथापि स्पष्टम् उच्चारणम्। सुस्पष्टा स्वरप्रक्रिया । कृताध्ययनाः एव एवं रुद्रमन्त्रान् उच्चारयितुम् अर्हन्ति इति तु स्पष्टम् । सभास्थाः सर्वेऽपि तौ किशोरौ साश्चर्यं पश्यन्ति
– अभारतीयौ अपि एतौ बालौ कथम् एवं
वेदमन्त्रान् शुद्धम् उच्चारयतः इति ।
एषा घटना प्रवृत्ता अक्टोबरमासस्य द्वितीये दिनाड़े । गान्धीजयन्तीं निमित्तीकृत्य अमेरिका—देशस्थानां हिन्दुसेवासंस्थानां चतुर्थस्य वार्षिक–सम्मेलनस्य आरम्भे जाफरी एर्हार्ड, रोबी एर्हार्ड इत्यतौ बालौ रुद्रमन्त्रां पठित्वा सर्वान् आश्चर्यसागरे निमज्जितवन्तौ । अमेरिकादेशस्य
केन्द्रसर्वकारस्य विभिन्नहिन्दुधार्मिकसंस्थानां च । परस्परविचारविनिमयार्थ ‘धार्मिक-विचार-विनिमयः, सेवासामाजिकधर्मः च’ (Dharmic dialogue: Seva and Social justice) —इति
विषयम् अधिकृत्य एतत् सम्मेलनम् आयोजितम् ।
आसीत्।
जाफर, रोबी इत्येतौ ‘कोलेरडो’ राज्ये
(अमेरिकादेशे) जन्म प्राप्तवन्तौ । आ बाल्यात् ।
तयोः अध्ययनं पुट्टबर्तिनगरे (भारते आन्ध्रप्रदेशे) प्रवृत्तम् । तत्रैव ताभ्यां वेदमन्त्राणाम्
अध्ययनमपि कृतम् । अतः एव तयोः |
वेदोच्चारणं शुद्धं सस्वरं च वर्तते भारतीयानाम्
एतस्मिन् समावेशे संस्कृतभारत्याः अपि सहभाग: आसीत् । डा.दीपा अय्यर्, अन्ये चत्वारः तरुणाः च संस्कृतभारत्याः प्रातिनिध्यम्
ऊढवन्त: आसन्