Category Archives: Uncategorized

असमे संस्कृतम् अनिवार्यम्

असमे संस्कृतम् अनिवार्यम्

असमराज्ये अनिवार्यरुपेण संस्कतस्य पाठनस्य प्रस्तावः कृतः अस्ति अद्यत्वे । ‘येषु विद्यालयेषु संस्कृतशिक्षकः अस्ति तत्र अनिवार्यं भवेत् संस्कृतम्’ इति प्रस्तावम् उपस्थापितवान् अस्ति अर्थमन्त्री हिमन्तविश्वशर्मा । ‘पुनरुतिष्ठासु असमम्’ इति सङ्कल्पनम् अनृसृत्य प्रस्तुयमाने अर्थसङ्कल्पे सः – ‘सर्वाणि संस्कत-शिक्षकपदानि पूरयिष्यन्ते इति उध्दोषितवान् अस्ति ।
residential-schools-in-india1
अवसरे अस्मिन् भाषमाणः शर्ममहोदयः अकथयत् –“मातृभाषायाः स्थानिकभाषायाः वा औपचारिकशिक्षणे योजनविषये बहवः चिन्ताक्रान्ताः सन्ति । वैश्वीकरण युगे अस्मिन् सर्वेणापि छात्रेण अन्ताराष्टीयभाषायां, राज्य-भाषायां च अवशयं कौशलं सम्पादनीयम् उद्योगर्थम् इति सानुरोधं प्रतिपाद्यते बहुभिः । किन्तु प्रभाविशिक्षणार्थ मातृभाषायाः उपयोगः भवति अधिकलाभकरः इति संशोधनं वदति यत् तदेव वयम् अनुसरामः” इति ।

संस्कृतलघुचित्रम्

‘लोभमदमात्सर्यादयः रिपव: अस्मदन्तरङ्गे एव निवसन्ति । ज्ञानोदये जाते परस्परप्रीतिः जागर्ति । षण्णां रिपूणां नाशनात् सच्चिगानन्दस्वरूपी भगवान् दृश्यते’ इत्येतं सन्देशं साङ्केतिकतया निरूपयति ‘वरदायिनी शिला’ (The boon Rock) इत्येतत् लघुचित्रम्। ‘वसिष्ठक्रियेषन्स्’ द्वारा निर्मितस्य एतस्य निर्मापकौ स्तः सन्ध्याप्रसाद, रामप्रसाद के. एस्. च । निरूपयितुम् अत्र कश्चन प्रयासः कृतः । चित्रमेतत् Youtube मध्ये द्रष्टुं शक्यम् । Link –

अन्यानि अपि संस्कृत-चलचित्राणि अस्माकं जालपत्रे   अत्र  दृष्टुं शक्यानि।

संस्कृत-चलनचित्र-गीताय प्रशस्तिः

चलनचित्रक्षेत्रं धनसम्पादनोद्देशकमेव भवति । कथावस्तु, दृश्यम्, चित्रीकरणम्, अभिनयः, सङ्गीतं, नृत्यं, निर्देशनम् इत्यादयः सर्वेऽपि एतदेव तत्त्वम् अनुसरन्ति । तादृशे विलक्षणे क्षेत्रे अपि क्वचित् संस्कृताभिमानादयः दृश्यन्ते । अद्यत्वे एकेन संस्कृतगीतेन प्रशस्तिः प्राप्ता अस्ति । तस्य रचयिता अस्ति युसूफली केचेरी इति । तेन पञ्चाधिकेभ्यः दशकेभ्यः मलयाळचलनचित्रक्षेत्रे कार्य कृतं, षट्-शताधिकानि गीतानि रचितानि च । तदीयानि बहूनि गीतानि जनप्रियाणि जातानि सन्ति ।
‘माझा’ इत्यस्मिन् चलनचित्रे उपयुक्तम् अस्ति एकं संस्कृतगीतम् । एतस्य स्वरसंयोजनं यत् कृतं तदर्थं प्रशस्तिः प्राप्ता अस्ति केचेरीवर्येण । अस्य गीतस्य रचयिता सड़ीतनिर्देशकश्चापि अस्ति सः एव । तत् गीतम् अधः अस्ति –
गेयं हरिनामधेयम्
भवभयसागरतरलोपायम्
शाश्वतमृत्युञ्जयम्।।
गेयं हरिनामधेयम्
भवभयसागरतरलोपायम्
शाश्वतमृत्युञ्जयम्।।
चारुकेशिरागालापम्ऽऽऽ।।
श्रुतिलयसङ्गमं सुधानिकेतनम्
निरुपमसदनं नित्यानन्दं
राधामाधवकेलिसाधनम् ।। गेयं हरि…।।
वीतरागं गोपीजारं
यदुकुलबालं मृगमधपालम् ।
विगलितगधनं योगिगम्यम्
चेतोरम्यं गीतागहनं गीतागहनम् ।। गेयं हरि..।।
‘यू ट्यूब्’ इत्यत्र गीतमेतत् श्रोतुं शक्यम् ।
अभिनन्दामः वयम्।
(आङ्ग्ललिप्या मुद्रितम् एतत् अत्र देवनार्या लिखितम्।
द्वित्रस्थले परिष्कारः अपेक्ष्यते इति भाति । मूलं यथा दृष्टं
तथैव मुद्रितम् अत्र ।

श्वेतभवने रुद्रमन्त्रोद्धोषः

श्वेतभवने रुद्रमन्त्रोद्धोषः 004

अमेरिकादेशस्य श्वेतभवनम् । तत्र उभौ | किशोरौ ‘नमस्ते रुद्रमन्यव..’ इति रुद्रमन्त्रान् |
सस्वरं पठतः । दर्शनात् एव ज्ञायते – तौ बालौ न
भारतीयमूलौ इति । तथापि स्पष्टम् उच्चारणम्। सुस्पष्टा स्वरप्रक्रिया । कृताध्ययनाः एव एवं रुद्रमन्त्रान् उच्चारयितुम् अर्हन्ति इति तु स्पष्टम् । सभास्थाः सर्वेऽपि तौ किशोरौ साश्चर्यं पश्यन्ति
– अभारतीयौ अपि एतौ बालौ कथम् एवं
वेदमन्त्रान् शुद्धम् उच्चारयतः इति ।
एषा घटना प्रवृत्ता अक्टोबरमासस्य द्वितीये दिनाड़े । गान्धीजयन्तीं निमित्तीकृत्य अमेरिका—देशस्थानां हिन्दुसेवासंस्थानां चतुर्थस्य वार्षिक–सम्मेलनस्य आरम्भे जाफरी एर्हार्ड, रोबी एर्हार्ड इत्यतौ बालौ रुद्रमन्त्रां पठित्वा सर्वान् आश्चर्यसागरे निमज्जितवन्तौ । अमेरिकादेशस्य
केन्द्रसर्वकारस्य विभिन्नहिन्दुधार्मिकसंस्थानां च । परस्परविचारविनिमयार्थ ‘धार्मिक-विचार-विनिमयः, सेवासामाजिकधर्मः च’ (Dharmic dialogue: Seva and Social justice) —इति
विषयम् अधिकृत्य एतत् सम्मेलनम् आयोजितम् ।
आसीत्।
जाफर, रोबी इत्येतौ ‘कोलेरडो’ राज्ये
(अमेरिकादेशे) जन्म प्राप्तवन्तौ । आ बाल्यात् ।
तयोः अध्ययनं पुट्टबर्तिनगरे (भारते आन्ध्रप्रदेशे) प्रवृत्तम् । तत्रैव ताभ्यां वेदमन्त्राणाम्
अध्ययनमपि कृतम् । अतः एव तयोः |
वेदोच्चारणं शुद्धं सस्वरं च वर्तते भारतीयानाम्
एतस्मिन् समावेशे संस्कृतभारत्याः अपि सहभाग: आसीत् । डा.दीपा अय्यर्, अन्ये चत्वारः तरुणाः च संस्कृतभारत्याः प्रातिनिध्यम्
ऊढवन्त: आसन्

बाली-देशस्य विमानस्थानके- स्वस्त्यस्तु

कश्चित् यदा निर्गच्छेत् तदा आधुनिकैः अस्माभिः उच्यते – ‘बैबै’ इति । बालीस्थे विमानपत्तने एतदर्थं लिखितम् अस्ति – ‘ओं स्वस्त्यस्तु’ इति। यत्र इस्लाममतस्य एव प्राधान्यं, तस्मिन् देशे विमानपत्तने संस्कृतवाक्यं यत् प्रयुक्तम् अस्ति तत् महते आश्चर्याय आनन्दाय च।
भारते यदि एवं कृतं स्येत् तर्हि महती चर्चा, महान् विरोधः च अभविष्यत् ननु ?